________________
अत एव
'यझेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥ (ऋ.सं.८०४) इत्येतन्मन्त्रविवरणप्रक्रमे'यज्ञेन वै तद्देवा यज्ञमयजन्त, यदग्निना अनिमयजन्त, ते खर्ग लोकमायन् । छन्दांसि व साध्या देवाः तेऽग्रेऽमिना अग्निमयजन्त ते खर्ग लोकमायन् ॥ आदित्याश्चैवेहासन्नङ्गिरसश्च । ते अग्रे अग्निमयजन्त, ते खर्ग लोकमायन् ॥' इत्येवमुक्तमैतरेयके। अत एव च'त्राणि च शतानि षष्टिश्चानूच्यानि यज्ञकामस्य, त्रीणि च वै शतानि षष्टिश्च संवत्सरस्थाहानि तावान् संवत्सरः, संवत्सरः प्रजापतिः प्रजापतिर्यज्ञः ॥' इत्यादि श्रूयते ।
एतदभिप्रायेणैव चैतेषां छन्दसामनेः प्रजापतेश्च तनुत्वमपि तत्र तत्रोपचार्यते। तथा हि"विष्णुमुखा वै देवाश्छन्दोभिरिमांलोकाननपजय्यमभ्यजयन् । यद्विष्णुक्रमान् क्रमते विष्णुरेव भूत्वा यजमानश्छन्दोभिरिमाल्लोकाननपजय्यमभिजयति ।'
इत्येवं विष्णुक्रमपरिक्रमणविधौ
"अथावर्तते-सूर्यस्यावृतमन्वावर्त इति । एवमिमाँलोकान् समारुह्य, अथैषा गतिरेषा प्रतिष्ठा-य एष तपति, तस्य ये रश्मयस्ते सुकृतोऽथ यत्परं भाः प्रजापतिर्वा स खर्गो वा लोकः; तदेवमिमाँल्लोकान् समारुह्य, अर्थतां गतिमेतां प्रतिष्ठां गच्छति, तदेतां गतिमेतां प्रतिष्ठां गत्वा एतस्यैवावृतमन्वावर्तते।" ___ इति माध्यन्दिना आहुः ॥
तैत्तिरीया अप्येवं
“ऐन्द्रीमावृतमन्वावर्तते-इत्याह । असौ वा आदित्य इन्द्रः । तस्यैवावृतमनु पर्यावर्तते । तस्माद्दक्षिणोऽर्ध आत्मनो वीर्यावत्तरोऽयो आदित्यस्यैवावृतमनु पर्यावर्तते।" इत्युक्त्वा,
"चतसृभिरावर्तते-चत्वारि च्छन्दांसि । छन्दांसि खलु वा अग्नेः प्रिया तनूः प्रियामेवास्य तनुवमभिपर्यावर्तते।"
इत्याद्यामनन्ति ।
"सप्त छन्दांसि ऋतुमेकं तन्वन्ती"( म. भा.)त्याद्याः स्मृतयश्चैतदर्थपरा द्रष्टव्याः।। एवं हि भूयांसो याज्ञिकानां यज्ञानुबन्धिनो व्यवहारा. एतदेव छन्दोमयमण्डलमनुसृत्य प्रवर्तमानाः सन्तीति तत्र तत्रान्वीक्षितव्यम् ॥
एवमेवादित्यप्राधान्यात् प्रजापतिशब्देन व्यवहारे प्रवर्तमाने मुख्यमादित्यबिम्बं तदुपलक्षितरेखां वोभयतो दश दश रेखा आक्रम्य कृतशरीरस्यैकविंशस्य प्रजापतिपुरुषस्य याम्यसान्यभेदेन द्वैधे प्रतिपने