________________
३७
यच्च – “पशवो वै देवानां छन्दांसि तद् यथेदं पशवो युक्ता मनुष्येभ्यो वहन्ति । एवं छन्दांसि युक्तानि देवेभ्यो यज्ञं वहन्ति ॥” इति शतपथे छन्दसां पशुत्वम् ; ( २ )
यदपि — 'अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नृत्यः । ताभिर्याति॒ि स्वयुक्तिभिः ॥ १ ॥' (ऋ.सं. १४ ) 'सप्त त्वा हरितो रथे वहन्ति देव सूर्य । शोचिष्केशं विचक्षण ॥ २ ॥ ' ( ऋ. सं. ११४ )
'भद्रा अश्वा हरितः सूर्यस्य चित्रा एतग्वा अनुमाद्यासः ।
नमस्यन्तो दिव आ पृष्ठमस्थुः परिद्यावापृथिवी यन्ति सद्यः ॥ ३ ॥' (ऋ. सं. ११८ ) 'सप्त स्वसारः सुविताय सूर्यं वहन्ति हरितो रथे ॥ ४ ॥ . (ऋ. सं. )
‘सप्त युञ्जन्ति रथमेकचक्रमेको अश्वो वहति सप्तनामा ।
त्रिनाभि चक्रमजरमनर्वं यत्रेमा विश्वा भुवनाऽधि तस्थुः ॥' (ऋ.सं. २1३ )
'इमं रथमधि ये सप्त तस्थुः सप्त चक्रं सप्त वहन्त्यश्वाः ।
स॒प्त स्वसारो अभिसंनवन्ते यत्र गवां निहिता सप्तनाम ॥' (ऋ. सं. २1३ ) इत्येतेषु मन्त्रेषु छन्दसामश्वत्वम् ; ( ३ )
यच्च-
- "तेऽब्रुवन्नङ्गिरस आदित्यान् । क्व स्थ व वः सद्भ्यो हव्यं वक्ष्याम इति । छन्दःसु इत्यब्रुवन् । गायत्रियां त्रिष्टुभि जगत्यामिति तस्माच्छन्दः सु सत्य आदित्येभ्य आङ्गिरसीः प्रजा हव्यं वहन्ति ।'
इति ब्राह्मणे छन्दसां सदनत्वं व्याख्यायते; ( ४ ) — तेषामयमाशयः
सूर्यो हि दिवि गच्छन् त्रिशत्युत्तरषट्षष्टितमे दिवसे पुनः प्राक्तनं स्थानमागच्छन् यं पन्थानमाश्रयति तदयनवृत्तं त्रिशत्युत्तरषष्टयंशैरङ्कितं याम्योत्तरतश्चैकांशेन विपुलं द्रष्टव्यम् । तदीययाम्यरेखातो दक्षिणतो द्वयंशान्तरेऽपरा रेखा तावदंशाङ्किता,. ततोऽपि दक्षिणेन त्र्यंशान्तरेऽन्या, ततः पञ्चाशान्तरेऽप्यन्या कार्या । एवमुत्तररेखाया उत्तरतोऽपि तिस्रो रेखाः कार्याः । तदित्थमष्टरेखाभिः सप्तपर्वा सूर्यमार्गः । तत्र सर्वदक्षिणे पर्वणि पञ्चदशभिः पञ्चदशभिरंशैर्विभागे कृते चतुर्विंशतिर्विभागा लभ्यन्ते, तदतश्चतुर्वैशत्यक्षरेयं गायत्री द्रष्टव्या ( १ ) तदुत्तरपर्वणि च पादार्थोनैस्त्रयोदशभिस्त्रयोदशभिरंशैरष्टाविंशतिविभागाः स्युः, ततस्तावदक्षरा सेयमुष्णिक् संसिद्धा ( २ ) ततोऽप्युत्तरपर्वणि सपादैकादशांशैः कृत्वा द्वात्रिंशद्विभागलाभात्तावदक्षरा सेयमनुष्टुप् सिद्ध्यति ( ३ ) अथ मध्यमपर्वणि सूर्यबिम्बाधिष्टिते दशभिर्दशभिरंशैर्मर्यादायां षट्त्रिंशद्विभागसिद्धौ तावदक्षराया बृहत्याः सिद्धि: ( ४ ) एवं तदुत्तरपर्वणि नवांशैः कृत्वा चत्वारिंशदक्षरायाः पङ्क्तेः ( ५ ) तदुत्तरतश्च पादोनपादेन सपादैकादशकलात्मकेन सहितै - रष्टांशः कृत्वा चतुश्चत्वारिंशदक्षरायास्त्रिष्टुभः ( ६ ) तथा सर्वोत्तरपर्वणि सार्धसप्तांशैः कृत्वा अष्टाचत्वारिंशदक्षरायां जगत्याश्च संसिद्धिर्द्धष्टव्या ( ७ ) तथा हि न्यासः-
-