________________
:
२८
कतिपय संस्काराणां विवाहमात्रस्य वा तत्राप्यनुवर्तमानत्वात्
: ' आर्षक्रमेण सर्वत्र शूद्रा वाजसनेयिनः । . तस्माच्छूद्रः खयं कर्म यजुर्वेदीव कारयेत् ॥'
·‘इतिं शूद्राहिकाचारतत्त्वधृतस्मृतिवचनेन शूद्राणामपि वेदसंबन्धात् - इति चेत । अत्रोच्यते यथेच्छसि तथास्तु । उभयथाप्येतच्छंक्यते प्रतिपत्तुं कतिपयस्य वा सर्वस्य वा छन्दस्त्वमस्तीति । ननु चोकमुभयत्रापि दूषणमिति चेत् — नैतदस्ति । अस्ति ह्येतत् - यदारम्भे यदारम्भः, यदवसाये यदवसायः, यदभ्युच्चये यदभ्युच्चयः, यदवचये यदचचयः, तत्तदायतनमित्युच्यते । यदाश्रयेण वा यस्य प्रतिपत्तिः सा तस्य प्रतिष्ठाऽभिज्ञायते । तथा चायं तावद् ब्राह्मसंस्कारः साक्षात्परम्परया च ब्राह्मणत्वक्षत्रियत्ववैश्यत्वानां प्रतिष्ठा भवति । तदधीनोपपत्तिकत्वात् । प्रतिष्ठायां च श्रूयते प्रमाशब्दः, तस्मात् संसिद्धं प्रमालक्षणं छन्दस्त्वमेतस्य ।
तत्र योग्यात्मनि संस्कारविशेषेण ब्रह्माधीयते, योग्यात्मनि च संस्कारविशेषेण क्षत्रं, विड् वा । श्वोवस्यसं चेदं ब्रह्म, रौद्रं क्षत्रम्, मारुत्यो विशः । आतश्चाग्नेयं ब्रह्म, ऐन्द्रं क्षत्रम्, वैश्वदेव्यो विशः । अनेस्तु छन्दो गायत्री सा चाष्टवर्णा, इन्द्रस्य त्रिष्टुबेकादशवर्णा, विश्वेषां देवानां जगती द्वादशवर्णा । आतश्च गायत्रं ब्रह्म, त्रैष्टुभं क्षत्रम्, जागती विर् । तदित्थमष्टवर्णनिबन्धनं ब्रह्माधेयम्, एकादशवर्णनिबन्धनं चेदं क्षत्रम्, द्वादशवर्णनिबन्धना त्वेषां विडिति वर्णछन्दोबद्धतया त्रयो वर्णा उच्यन्ते - ब्राह्मणः क्षत्रियो वैश्य इति । शूद्रस्यैवमवर्णत्वेऽपि वर्णत्वमौपचारिकं द्रष्टव्यम् । अच्छन्दस्त्वस्यैव छन्दस्त्वेन विवक्षितत्वात् । तथा च यथा हि वाग्वर्णो गायत्रीछन्दाः, त्रिष्टुप्छन्दाः, जगतीच्छन्द्राः, विच्छन्दा वा भवति एवमयं मनुष्यवर्णोऽपि चतुर्विधो भवति । सर्वोऽप्ययं प्राणिवर्गोऽप्राणिवर्गों वा तैरेतैर्वर्णच्छन्दोभिरैव सच्छन्दस्कतया वर्णो भवति । ब्राह्मणः, क्षत्रियः, वैश्यः, शूद्र इति । यथा च ग्राम्येषु पशुषु तावदजो ब्राह्मणः, अविः क्षत्रियः, गौर्वैश्यः, अश्वः शूद्र इति । यथा वान्यत्र स्थावरादिषु । एवमयं मनुष्येषु संस्कारसिद्धो भूत्वा गायत्रीच्छन्दा ब्राह्मणः, त्रिष्टुप्छन्दाः क्षत्रियः, जगतीच्छन्दा वैश्यः, प्राजापत्यच्छन्दा विच्छन्दा वा शूद्र इति ॥
'ब्राह्मणोऽस्य मुखमासीद् बाहू राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः पद्भ्यां शुद्रो... अजायत ॥ इति ।
:
9
1
'प्रजापतिरकामयत – प्रजायेयेति स मुखतस्त्रिवृतं निरमिमीत । तमग्निर्देवता अन्वसृजत, गायत्री छन्दो, रथन्तरं साम, ब्राह्मणो मनुष्याणाम्, अजः पशूनाम् । तस्मात्ते मुख्याः——मुखतो ह्यसृज्यन्त ॥ उरसो बाहुभ्यां पञ्चदशं निरमिमीत । तमिन्द्रो दैवतान्यसृजत, त्रिष्टुप्छन्दः, बृहत्साम, राजन्यो मनुष्याणाम्, अविः पशूनाम् । तस्मात्ते वीर्यवन्तो वीर्यादयसंयन्त ॥ मध्यतः सप्तदशं निरमिमीत । तं विश्वेदेवा देवता अन्वसृजन्त । जगतीछन्दो, वैरूपं साम, वैश्यों मनुष्याणाम्, गावः पशूनाम्,