________________
तत्र गर्भाधानं तावत्स्वरूपसंपादनोद्देशेन सहधर्मचारिणीक्षेत्रे गर्भाशयरूपे शारीरा-- मिसमीपे वा संस्कार्यस्य संस्थापनं, सोऽयं गर्भभावकः संस्कारो द्रष्टव्यः । तथा च गर्भा. धानपुंसवनसीमन्तोन्नयनकर्माणि - तत्र गर्भ ब्रह्मभावयोग्यतारूपातिशयाधायक.. त्वाद् विशेषकसंस्कारा भवन्ति । 'गर्भाधानवदुपेतो ब्रह्मगर्भ संदधाति । पुंसवनात् पुंसीकरोति, फलस्नपनान्मातापितृ पाप्मानमपोहति ।' इति हारीतस्मरणात् । त एतेऽन्तर्गर्भसंस्कारा उच्यन्ते। ततो बहिःशालायामिव गृहोदरबहिर्भूते गर्भे शुक्रशोणितोपगतदोषमार्जकत्वादुत्तरे जातकर्म-नामकर्म-निष्क्रमा-नप्राशन-कर्णवेध ---मुण्डन-स्नानादीनि कतिपयकर्माणि शोधकसंस्कारा भवन्ति । 'रेतोरक्तगर्भोपघातः पञ्चगुणः, जातकर्मणा प्रथममपोहति, नामकरणेन द्वितीयम्, प्राशनेन तृतीयम् , चूडाकरणेन चतुर्थम् , लानेन पञ्चमम् , एतैरष्टभिः संस्कारर्गर्भोपघातात् पूतो भवति ।' इति हारीतस्मरणात्।, एवमेनः शमं याति बीजगर्भसमुद्भवम्' (मनुः) इत्यादिस्मृत्यन्तरेभ्यश्च त एते गर्भशुद्धिसंस्कारा उच्यन्ते। सोऽयमेतावान् गर्भसंस्कारोऽनुव्रताद्युत्तरसंस्कारयोग्यतासम्पत्त्यर्थः पितृकर्तृकश्च । तत्र संस्कर्तृनिष्ठमधिकारितावच्छेदकं ब्राह्मण. त्वादिघटितवर्णत्वघटितम् । संस्कार्यनिष्ठं तु ब्राह्मणादिवर्णजन्यत्वमेव, न तु ब्राह्मणत्वादिकमपि तत्र फलोपधायकतारूपमपेक्ष्यते ।।
अतः परमुपनयनं तावत् खरूपसंपादनोद्देशेन सावित्रीक्षेत्रे ब्रह्मचर्यव्रतरूपे कर्माग्नि समीपे वा संस्कार्यस्य संस्थापनम् । सोऽयं वर्णभावकः संस्कारो द्रष्टव्यः । तथा चोपनयन-व्रतादेश-वेदारम्भ-वेदाध्ययनानि, सावित्रामेयशुक्रियौपनिषदशौलभगोदानभौतिकमहानाम्नीव्रतोत्सर्गाः, केशान्तः, समावर्तनस्नानं चेत्येते तत्र ब्राह्मणादिवर्णे यज्ञक्रियायोग्यतारूपातिशयाधायकत्वाद् विशेषकसंस्कारा भवन्ति ।
'उपनयनाद्याभिरष्टाभिर्वतचर्याभिरन्ततैश्चाष्टभिः स्वच्छन्दःसम्मितो ब्राह्मणः परं पात्रं देवपितॄणां भवति छन्दसां पारं गच्छति छन्दसामायतनम् इति हारीतस्मरणात् ;
'खाध्यायेन व्रतैोमै स्त्रै विद्येनेज्यया शुभैः ।
महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः ॥' (मनुः २।२८) इत्यादिस्मृत्यन्तरेभ्यश्च । त एते आचार्यकर्तृका अनुव्रतसंस्कारा उच्यन्ते। यद्यपि
। 'गाभैोमैर्जातकर्मचौडमौजीनिबन्धनैः । . .
__बजिकं गार्भिकं चैनो द्विजानामपमृज्यते ॥' (मनुः २।२७) इति मनुस्मरणात् । 'सांवत्सरिकस्य चूडाकरणम् , तृतीये वा प्रतिहते, षोडशवर्षस्य केशान्तः।' इति पारस्करसूत्रे मुण्डनगोदानयोर्गर्भसंस्कारप्रकरणोपात्तत्वादुपनयनकेशान्तयोरपि गर्भसंस्कारत्वमाक्षिपन्ति। अथापि दधिदर्शनन्यायेन संभवत्येव कतिपयानामुभयविधसंस्कारत्वमित्यतः प्रकरणातिरेको न दोषायेत्यनुसंधेयम्। '
ततो बहिःशालायामिव पितृगृहं प्रत्यावृत्ते वर्णे ऋणपञ्चकसूनापञ्चकोपगतदोषमार्जक-. . त्वादुत्तरे नैमित्तिकवार्षिकमासिकाहिकात्मकभेदचतुष्टयभिन्नाः शोधकसंस्कारा भवन्ति ॥