________________
६ अध्यायः]
-
मुजगशिशुसृता नौ म् ॥६॥७॥ यस्य पादे नकारौ (u.n) मकार (sss) श्च भवति, तत् 'भुजगशिशुसृता' नाम वृत्तम् ॥ तत्रोदाहरणम्
... नगणः नगणः मगणः नगणः नगणः मगणः । . . .. •ss ।।.1-1..1-5 . 5•s
इयम-धिकत-र(५),रम्या विकच-कुवल-य(७),-श्यामा। कुसुमिताच्छन्दः (९।१५२)–'कुसुमिता नरौ रो ,यदा ।' क्वचित् । भुजङ्गसंगताच्छन्दः (९।१७२)–'सजरैर्भुजङ्गसंगता।' छन्दःकौस्तुमे। भद्रिकाच्छन्दः (९।१८७)-'भद्रिका भवति रो नरौं' वृत्तरत्नाकरे. मणिमध्यच्छन्दः (९।१९९)-'स्यान्मणिमध्यं चेगमसाः।' छन्दःकौस्तुभे ।
'मणिबन्ध इति श्रुतबोधे। सारङ्गिकाच्छन्दः (९।२०८)
'दिअवर कण्णो सअणं पअ पअ मत्तागणणं । सुरमुणिमत्ता लहिअं सहि सरगिका कहि ॥'
प्रा० २१७९ ॥ .. 'सारसा, शामिका' इत्यपि नामान्तरे सारङ्गिकायाः कचित् । पाइत्ताच्छन्दः (९।२४१)-कुंतीपुत्ताजुअ लहिअं तीए विप्पो धुअ कहिअं।
अंते हारो जह जणि पाइत्तारू फणिभणिअं॥ .
प्रा० २१८१॥ 'कुसुमवती, 'पवित्रा,' 'पारन्तीयम्' इति नामान्तराणि पाइत्ताख्यस्य । तोमरच्छन्दः (९।३४४)-'जसु आइ हत्थं विआण तह ब पओहर जाण ।
पभणेइ णाअणरिंद इम माणु तोमरछंद ॥' ..
प्रा० २१८७॥ कमलच्छन्दः (९।५१२)-'सरसगणरमणिआ दिअगणजुअ पलिआ।
गुरु धरिअ पइपउ दहकलअ कमलउ ॥'
- प्रा० २१८३ ॥ 'कमला' इत्यपि नामान्तरं कमलस्य क्वचित् ।
१. चतुष्पादार्षबृहतीपादघटकीभूतानां नवाक्षराणां प्रस्तारे क्रियमाणे द्वादशाधिकपञ्चशतभेदा (५१२) भवन्ति । तत्र (६४) चतुःषष्ठितमोऽयं भेदो 'भुजगशिशुसृता' इति नाम्ना प्रसिद्धः, अस्या एव 'भुजगशिशुभृता', 'भुजगशिशुयुता', 'भुजगशिशुवृता', 'भुजगशिशुसुता' इति नामान्तराणि छन्दःकौस्तुभादौ लभ्यन्ते । गारुडे तु 'शिशुभृता' इत्येव, 'नौ. मः शिशुभृता भवेत् ।' (१॥२०॥५) इति ।