SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ ६ अध्यायः] छन्दःशास्त्रम् । 'श्लोकार्धे तु विशेषतः' इत्यत्र संधिकार्याभावः स्पष्टविभक्तिकत्वं च विशेषः । तत्रोदाहरणं यथा . 'नमस्यामि सदोद्भूतमिन्धनीकृतमन्मथम् । ईश्वराख्यं परं ज्योतिरज्ञानतिमिरापहम् ॥' अत्र 'ईश्वराख्यम्' इत्यस्य पूर्वमकारेण संयोगो न कर्तव्यः । समासे प्रत्युदाहरणं [यथा-] 'सुरासुरशिरोरनस्फुरत्किरणमञ्जरी। पिञ्जरीकृतपादाजद्वन्द्वं वन्दामहे शिवम् ॥' 'समुद्रादिपदान्ते च व्यक्ताव्यक्तविभक्ति तत्र श्रूयमाणविभक्त्यन्तं व्यक्तविभक्तिकम् , समासान्तर्भूतविभक्त्यन्तमव्यक्तविभक्तिकम् । तत्रोदाहरणं [ यथा-] 'यक्षश्चके जनकतनयाखानपुण्योदकेषु' (मे. सं. ११) इत्यादि। 'व्यक्ताव्यक्तविभक्तिके' इति 'यतिः सर्वत्र पादान्ते' इत्यनेन संबध्यते। तत्रोदाहरणम् ‘वशीकृतजगत्कालं कण्ठेकालं नमाम्यहम् । महाकालं कलाशेषशशिलेखाशिखामणिम् ॥' अपि च। 'नमस्तु शिरखुम्बिचन्द्रचामरचारवे। त्रैलोक्यनगरारम्भमूलखम्भाय.शम्भवे ॥' .. 'क्वचित्तु पदमध्येऽपि समुद्रादौ यतिर्भवेत् । यदि पूर्वापरौ भागौ न स्यातामेकवर्णको ॥' तत्रोदाहरणम् 'पर्याप्तं तप्तचामी,-करकटकतटे श्लिष्टशीतेतरांशौ' इत्यादि । तथा—'कूजत्कोयष्टिकोला,-हलमुखरभुवः प्रान्तकान्तारदेशाः' इत्यादि । तथा-'हासो हस्ताग्रसंवा,हनमपि तुलिता, दीन्द्रसारद्विषोऽसौं' इत्यादि । तथा—'वैरिश्चानां तथोचा,-रितरुचिरऋचा चाननानां चतुर्णाम्' इत्यादि। तथा—'खङ्गे पानीयमाहा,-दयति च महिषं पक्षपाती पृथक्कः' इत्यादि । समुद्रादाविति किम् ? । पदमध्ये यतिः पादान्ते मा भूत् । तद्यथा-'प्रणमत भवबन्धक्लेशनाशाय नारा,-यणचरणसरोजद्वन्द्वमानन्दहेतुम्' इत्यादि। पूर्वोत्तरभागयोरेकाक्षरत्वे तु यतिर्दुष्यति । तत्रोदाहरणम्'एतस्या ग,-ण्डतलममलं गाहते चन्द्रकक्षाम्' इत्यादि । 'एतस्या रा,-जति सुमुखमिदं पूर्णचन्द्रप्रकाशन ।' इत्यादि । तथा—'सुरासुरशियेनिघू,-टचरणारविन्दः शिवः' इत्यादि। 'पूर्वान्तवत्खरः संधौ कचिदेव परादिवत्' । अस्यार्थः-योऽयं पूर्वपरयोरेकादेशः खरसंधौ विधीयते, स क्वचित्पूर्वस्वान्तवद्भवति क्वचित्परस्यादिवत् । तथा च पाणिनेः
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy