________________
३ अध्यायः]
छन्दःशास्त्रम् ।
३५
त्रिपादणिष्ठमध्या पिपीलिकमध्या' ।३। ५७ ॥ यदाद्यन्तौ पादौ बह्वक्षरौ, मध्यमोऽल्पतराक्षरः, तदाणिष्ठमध्या सती 'पिपीलिकमध्या' नाम भवति । अयमर्थः-आद्यन्तौ पादावाक्षरी, मध्यमत्यक्षरः, एवं त्रिपादायत्री पिपीलिकमध्या नाम भवति । एवं चतुरक्षरे पञ्चाक्षरेऽपि मध्यमे पादे पिपीलिक मध्या सिद्ध्यति । यत्किंचित्रिपाच्छन्दो लघुमध्यमपादं तत्सर्व पिपीलिकमध्यमुच्यते ॥
विपरीता यवमध्या । ३.। ५८ ॥
आद्यन्तौ पादौ लघ्वक्षरौ, मध्यमश्च बहुक्षरः, सा गायत्री 'येवमध्या' नाम भवति । एवमुष्णिगादिष्वपि योज्यम् ॥
ऊनाधिकेनैकेन निवृद्धरिजौ। ३ । ५९॥
चतुर्विंशत्यक्षरा गायत्री एकनाक्षरेण न्यूनेन सा 'निवृत्' इति विशेषसंज्ञां लभते । एकेनाधिकेन ' रिक्' इति । एवमुष्णिगादिष्वपि द्रष्टव्यम् ॥ १. 'पिपीलिकमध्येत्यौपमिकम्' (नि. ७॥१३॥३) इति यास्कः ।
१ गायत्र्या यथा-'नृभिर्येमानो हर्य्यतो (1) विचक्षणो (२) राजा देवः समुद्रियः (३)।' (ऋग्वेदे-अ०.७ अ० ५ व० १५ मं०१)
२ उष्णिहो यथः–'हरी यस्य सुयुजा विव्रता वे (१) रर्वन्ता नुशेषा (२) उमा रजी न केशिना पतिर्दन (३)॥' (ऋग्वेदे-अ० ८ अ० ५ व० २६ मं० २) ___३ अनुष्टुभो यथा-'पर्युपु प्रधन्व वाजसातये (१) परि वृत्राणि सक्षणिः (२)। द्विषस्तरध्या ऋगया न ईयसे (३)। (ऋग्वेदे-अ० ७ अ० ५ व० २२ मं० १)
४ बृहत्या यथा-'अभिवो वीरमन्धसो मदेषु गाय (१) गिरा महा विचैतसम् (२)। इन्हें नाम श्रुत्यै शाकिन वो यथा (३)॥' (ऋ०सं०अ०६अ०४व०३मं०४) __२. गायत्र्या यथा--'स सुन्वे यो वसूनां (१)यो रायामानेता य इळानाम् (२)। सोमो यः सुक्षितीनाम् (३)॥' (ऋ० सं० ७।५।१९।३) ..
उष्णिहो यथा-'सुदेवः समहासति (१) सुवीरौ नरो मस्तः स मर्त्यः (२)। यं त्रायध्वे स्याम ते (३)। (ऋग्वेदे-अ० ४ अ० ३ व० १३ मं०५)
३. निवृद्गायच्या यथा-'अग्निमिन्धानो मनसा (१) धिये सचेत मत्यैः(२)। अग्निमीधे विवस्वभिः (३)॥' (ऋग्वेदे-अ० ६ अ० ७ व० १२ मं०७)
निचूदुष्णिहो यथा—'स इधानो वसुष्कवि (१) निरीळेन्यौ गिरा (२)। रेवदस्मभ्यं पुर्वणीक दीदिहि (३)॥' (ऋ० सं० ११५।२७।५) ५ निवृदनुष्टुभो यथा-वेषस्तै धूम ऋग्वति (१) दिविषन्छुक आततः ()। : मूरो नहि द्युता त्वं (३) कृपा पावक रोचसे (७)'
(ऋग्वेदे-अ० ४ अ०५५० २ मं० १)