________________
२६
काव्याद”
अपक्षमाणा ववृधे पौरस्त्या काव्यपद्धतिः ॥ ५० ॥ मधुरं रसवदाचि वस्तुन्यपि रसस्थितिः । येन माद्यन्ति धीमन्तो मधुनेव मधुव्रताः ॥ ५१ ॥
पद्दतिः वधे । ते हि अर्थानुसारेण अलङ्कारानुसारेण च कदाचित् बन्धस्य मार्दवं कदाचित् वैकट्य कुत्रचिद्दा मित्रोभावमाद्रियन्ते न तु गुणपक्षपातेन पूर्वोक्तरूपां समताम्। अयं भावः। यत्रार्थस्य मृदुत्वं तत्र मृदुलो बन्धः यत्र तु अर्थस्य वैकट्यं तत्र विकटो बन्धः यत्र च अर्थस्य मिश्रीभावः तत्र मध्यमो बन्धः न तु येनैवारम्भस्तेनैव समापनमिति । युक्ताच्चैतत् तथाहि, सारङ्गाः किसु वलिातैः किमफलैराड़म्बरैजम्बुका मातङ्गा महिषा मदं व्रजत किं शून्याऽथ शूरा न के। कोपाटोपममुद्भटोत्कटशटाकोटेरिभारः शनैः सिन्धुध्वानिनि इङ्गते स्फुरति यत् तहर्जितं गर्जितम् ॥ इत्यत्रोत्तरार्द्ध कुपितसिंहवर्णनरूपार्थस्य वैकट्यात् उपक्रान्तमृदुबन्धत्यागो गुण एवेति अनुसन्धेयम् ॥ ५० ॥ ____माधुर्यं निरूपयति मधुरमिति। रसवत् रसाः शृङ्गारादयः तहुणयोगात् भावतदाभासा अपि रसशब्दवाच्याः ते विद्यन्ते यत्रेति तत् वाक्यं मधुरं माधुर्यगुणयुक्तम् । तर्हि रस एव माधुर्यमित्यर्थत एव पायातं परं गुणानां साक्षात् परम्परया वा रसोपकारकत्वं सर्वैरेव कविभिः अङ्गीकतमित्या. शङ्याह वाचौति । वाचि तादृशगुणयुक्तवाक्ये वस्तुन्यपि प्रतिपाद्यभूते अर्थेऽपि रसस्थितिः शृङ्गाराद्यवस्थानम्। येन रसेन धीमन्तः सामाजिका न तु कुधिय इत्यर्थः मधुव्रता भ्रमरा मधुनेव माद्यन्ति मत्ता भवन्ति तथाच मुधियां मादहेतुः