SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ काव्यादर्श मात्रिकोऽयं मूढः स्यादचरज्ञश्च नः सुतः ॥ १२३॥ सा नामान्तरितामिश्रा वञ्चितारुपयोगिनी । एवमेवेतरासामप्युन्नेयः सङ्करक्रमः ॥ १२४ ॥ प्रहेलिकाचक्रम् । २५४ इति शब्दालङ्काराः । सभटा भटैः योद्धृभिः सह वर्त्तमाना इयं सेना शात्रवी चमूरित्यर्थः न जिता चेत् पराभूता न यदि, तदा श्रयं मे सुतः अमात्रिकः विषयज्ञानवर्जितः अतः अक्षरन्नश्च अक्षरं ब्रह्म तज्ज्ञोऽपौत्यर्थः, मूढ़: मूर्खः स्यात् । इति सहजोऽर्थः, गूढ़ार्थस्तु हकारयकारगकार जकारभकारटकारसहिता तथा सेना इनः स्वामौ अधिष्ठाता इत्यर्थ: तेन सहिता साधिष्ठाटका इयं वर्णमाला इत्यर्थः न जिता अभ्यस्ता चेत्, तदा अमात्रिक: मात्रा खरादिवर्णानामुच्चारणकालः तां वेत्तौति मात्रिकः न न मात्रिक: अमात्रिकः वर्णज्ञानरहित इत्यर्थ: अत: अक्षरं वेदं जानातीति अक्षरश: अम्यस्तवेदः अपि मूढ़: मूर्ख इत्यर्थः । यद्दा जिता लेखितुं शिक्षिता इत्यर्थ: अक्षरश: वर्णज्ञः तथापि मूर्ख एवेति सङ्कीर्णेति ॥ १२३ ॥ अत्र सङ्कीर्णतां घटयति सेति । सा पूर्वोक्ता सङ्कीर्णाख्या प्रहेलिका अत्र नामान्तरितामिश्रा हयादिशब्दानां नानार्थकल्पनादिति भावः, तथा सेनाशब्दस्य चमूरूपार्थस्य प्रसिद्धस्य वचनात् वञ्चितायाः प्रहेलिकाया रुपयोगिनी तम्मिलिता इत्यर्थ: उल्लिखिते पद्ये प्रहेलिकायाः सङ्कीर्णतेति दूतरासाम् न्यासामपि प्रहेलिकानां सङ्घरक्रमः एवमेव उन्नेयः अन्वेषtय इत्यर्थः ः ॥ १२४ ॥ •
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy