________________
तौय: परिच्छदः।
विनायकेन भवता वृत्तीपचितवाहुना। खमित्रोद्धाऽरिणाऽभौता पृथ्वी यमतुलाश्रिता॥६६ एकाकारचतुष्पादं तन्महायमकाह्वयम् । तत्रापि दृश्यतेऽभ्यासः सा परा यमकक्रिया ॥७०॥ समानयास ! मानया समानयासमानया। समानया समानया समान या समानया ॥७१॥ तधोक्तेन निरुपमेण इत्यर्थः भवता हेतुना इयं पृथ्वी अभौता दुर्जनेभ्यो भयरहिता जाता इत्यर्थः ॥ ६८ ॥
किञ्च अभौता युद्धाय भवत्समीपमभ्यागच्छता अभिपूर्वादिण्धातोः क्विपि युतीयैकवचनम्। तव अरिणा शत्रुणा विनायकेन नायकरहितेन भवता सता वृत्तौ जातौ उपचितौ श्मशानस्थचितामारूढ़ी इत्यर्थः बाहू यस्य तथोक्तेन, तथा खमित्राणि निजबन्धून् उन्नहातीति तथाभूतेन, खमित्रशब्दात् उत्पूर्वकस्य जहाते: क्विपि टतोयैकवचनम् । पृथ्वी गुरू यमतुला यमस्य अन्तकस्य तुला परिमाणयन्त्र विचारस्थानम् इत्यर्थः मानयन्वे न्यूनाधिकत्वनिश्चयवत् कृतान्तविचारालये पुण्यपापनिश्चय इति भावः, आश्रिता प्राप्ता यमसदनं गतम् इत्यर्थः । राज्ञः स्तुतिविषयकं श्लोकहयमिति श्लोकाभ्यासोऽयम् ॥ ६८ ॥ ___एकेति। एकाकाराः चत्वारः पादा यत्र तत् महायमकाह्वयं महायमकसंनं तत्रापि महायमकेऽपि यत्र पादखण्डस्य अभ्यासः पुनराहत्तिः दृश्यते सा परा श्रेष्ठा यमकक्रिया यमकवत् पद्यानुष्ठानमित्यर्थः ॥ ७० ॥ • समानयेति। अत्रायं पदच्छेदः समानयास, मा अनया,