SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः । सन्दष्टयमकस्थानमन्तादी पादयोर्द्वयोः । उक्तान्तर्गतमप्येतत् खातन्वणाव की ते ॥५१॥ उपोढ़रागाप्यबला मदेन सा मदेनसा मन्युरसेन योजिता । न योजितात्मानमनङ्गतापिताङ्कतापि तापाय ममास नेयते ॥ ५२ ॥ -२१० सम्प्रति सन्दष्टयमकस्थानं निर्दिशति सन्दष्टेति । सन्दष्टयमकं सन्दंशाकृति यमकं द्वयोः पादयोः श्रन्तादी प्रथमपादस्य अन्तं द्वितीयपादस्य आदि तथा तृतीयपादस्य अन्तं चतुर्थपादस्यादिच आक्रम्य स्थितमिति शेषः । एतत् उक्तेषु यमकेषु अन्तर्गतमपि रवेण भौम इत्यादौ पतितमपौत्यर्थः स्वातन्त्यु'ण पृथग्भावेन कीर्त्यते विशेषादिति भावः ॥ ५१ ॥ उपोति । सा अवला मदेन यौवनजनितविकारेण उपोढ़ः उद्रिक्तः रागः अनुरागो यस्यास्तादृशौ मय्यनुरागियो पिमदेनसा ममापराधेन हेतुना मन्युरसेन क्रोधावेगेन योजिता क्रोधपरवशा अत एव योजितः अभिनिवेशितः आत्मा मनः यस्यां तथाभूताम् अनङ्गतापिताम् अनङ्गं कामम् अक्कृतार्थतया तापयतीति श्रनङ्गतापिनी तस्या भावः तां गतापि सती मम इयते एतादृशाय तापाय न आस, न बभूव, न अपितु बभूव एवेत्यर्थः । सखायं प्रति कस्यचित् मानिन्या प्रत्याख्यातस्य उक्तिरियम् । अत्र पूर्वार्धे मदेन सा मदेनसा इति उत्तरार्धे च तापिता ङ्गतापितेति सन्दष्टयमकम् ॥ ५२॥ १८
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy