________________
काव्यादर्शे
सारयन्तमुरसा रमयन्ती
सारभूतमुरुसारधरा तम् । सारसानुकृतसारसंकाञ्ची सा रसायनसारमवैति ॥ ४५ ॥ नयानयालोचनयानयानयानयानयान्धान् विनयानयायते । । न यानयासौर्जिनयानयानयानयानयांस्तान् जनयानयाश्रितान् ॥ ४६ ॥
२१२
मितम् असङ्ख्यमित्यर्थः नाम यस्य तथाभूतं तथा अप्रतिमानः असदृशः मानो यस्य तादृशं सर्वाभिमतमित्यर्थः । आत्मानं परमात्मानमित्यर्थः आनमत नमस्कुरुत । अत्र सर्वेषु पादेषु अव्यवहितं व्यवहितञ्च मिश्र मध्यान्तयमकम् ॥ ४४ ॥
सारेति। उरुसारणि स्वर्णभूषणानि धरतोति तथोक्ता, उरुसारं सुवर्णं स्यादिति व्याड़िः । तथा सारसैः पक्षिविशेषैरनुकृता सारमा सशब्दा काञ्ची यस्यास्तथाभूता सा रमणी सारयन्तम् आश्लिष्यन्तं सारभूतं जगत्सु सारत्वेन गणितं तं पतिम् उरसा वक्ष.म्थलेन रमयन्ती प्रत्यालिङ्गनेन सुखयन्ती सती रसायनम् अमृतम् असारम् अवैति, प्रियालिङ्गनसुखादमृतं तुच्छमवगच्छतीत्यर्थः । अत्र सर्वेषु पादेषु मिश्रं व्यवहितमादिमध्ययमकम् ॥ ४५ ॥
नयेति । हे अनयायते ! अनया अपायरहिता आयतिर्यस्य तत्सम्बोधनम् । हे प्रभो ! श्रनया नयानयालोचनया