________________
प्रथमः परिच्छेदः ।
कविभावकृतं चिह्नमन्यवापि न दुष्यति । मुखमिष्टार्थसंसि किं हि न स्यात् कृतात्मनाम् ३० मिश्राणि नाटकादीनि तेषामन्यत्र विस्तरः । गद्यपद्यमय काचिचम्पूरित्यभिधीयते ॥ ३१ ॥
१५
ननु कथायां कवेर्भावविशेषो लक्ष्यते आख्यायिकायान्तु न तथेत्याशङ्क्य तदपि निरस्यति कवौति । कविभावकृतं कवेः भावकृतम् अभिप्रायरचितं चिह्नं लक्षणम् अन्यत्रापि कथायाम् इति शेषः न दुष्यति यथा शिशुपालबधे सर्गशेषश्लोकेषु श्रीशब्दः किराते च लक्ष्मीशब्दः प्रयुक्तः । एवम् श्राख्यायिकायां प्रयुक्तं तत् न दूष्यं भवति तथाहि इष्टार्थसंसिद्धै अभिप्रेतार्थसाधनाय कृतात्मनां सुधियां किं हि मुखं प्रारम्भः न स्यात् अपितु सर्वमेव तेषाम् इच्छाधीनत्वात् निरकुशाः कवय इति
भावः ॥ ३० ॥
सम्प्रति मिश्रकाव्यमाह मिश्रापीति । नाटकादीनि दृश्यकाव्यानि मिश्राणि गद्यपद्योभयमिश्रितानि श्रादिपदेन प्रकरणादीनां परिग्रहः । उक्तञ्च नाटकमथ प्रकरणं भागध्यायोगसमवकारडिमाः । ईहामृगाङ्गवौत्थः प्रहसनमिति रूपकाणि दश । तथा । नाटिका त्रोटकं गोष्ठी सट्टकं नाट्यरासकं प्रस्थानोल्लाप्य काव्यानि प्रेङ्खनं रासकं तथा । संलापकं श्रीगदितं शिल्पकञ्च विलासिका । दुर्मल्लिका प्रकरणी हल्लीशो भाणिकेत्यपि । अष्टादश प्राहरूपरूपकाणि मनीषिणः ॥ इति । तेषां नाटकादीनाम् अन्यत्र भरतादिग्रन्ये विस्तरः बाहुल्येन प्रकाशः तद्दिजिज्ञासुभिस्तत्रैव यतितव्यं ग्रन्थबाहुल्यभिया न ममात्र प्रयास इति भावः । न केवलं दृश्यकाव्यस्य मिश्रत्वं