SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ काव्यादर्थे मधुरं मधुरम्भोजवदने । वद नेवयोः । ! विभ्रमं भ्रमरभ्रान्त्या विडम्बयति किं नु ते ॥८॥ वारणो वा रणोद्दामो यो वा स्मर ! दुर्द्धरः । न यतो नयतोऽन्तं नस्तदहो विक्रमस्तव ॥ ६ ॥ राजितैराजितैक्ष्णेान जौयते त्वादृशैर्नृपैः । १८८ अथ सम्भेदयोनीन् यमकभेदान् दर्शयन् त दान् क्रमेण दर्शयति मधुरमिति । हे अम्भोजवदने ! पद्ममुखि ! मधुर्वसन्तः भ्भ्रमरभ्रान्त्या भ्रमराविमौ इति भ्भ्रमेण ते तव नेत्त्रयोः मधुरं बिभ्रमं विडम्बयति अनुकरोति किम् ? वद कथय । वसन्तोदये समुत्पन्ने अम्भोजे भ्रमरविलाससम्भवात् नु इति वितर्कबोधकं पदमत्र युज्यत एव । वसन्तस्तव मुखपद्मं नेत्रभ्रमरविलसितं दृष्ट्वा निजमुखभूतमम्भोजं भ्रमरविलासेन शोभयतीति तर्कयामीति भावः । केचित् तु अम्भोजवदने इति सप्तम्यन्तं पदमुक्त्वा तत्र वर्त्तमानयोर्ने तयोरिति योज - यन्ति । नु इत्यत्र नेति च पाठः तदा न विडम्बयति किम् श्रपितु विडम्बयत्येवेत्यर्थः । अत्र मधुरं मधुरमिति वदने वदने इति च प्रथमद्दितीयपादगतमव्यवहितमादिभागयमकम् ॥८॥ वारण इति । हे स्मर ! यतः यस्मात् तव रणोद्दामो युद्धदुर्मदः वारण: हस्तौ वा दुईर: दुर्धर्षः हयः अश्वो वा न अस्तीति - शेषः, तत् तस्मात् युद्धोपकरणाभावादपीत्यर्थः नः अस्मान् विरहिणः इत्यर्थः अन्तं नाशं नयतः प्रापयतः तव विक्रमः अहो आश्चर्य्यभूत इत्यर्थः । अत्र प्रथमतृतीयपादगतमिश्रमव्यवहितमादिभागयमकम् ॥ ८ ॥ राजितैरिति । त्वादृशैः राजितैः शोभितैः नृपैः आजि
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy