SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ १४. काव्यादर्श पुंसः पुराणादाच्छिद्य श्रस्त्वया परिभुज्यते । राजन्निक्ष्वाकुवंशस्य किमिदं तव युज्यते ? ॥ ३४५॥ भुजङ्गभोगसंसक्ता कलवं तव मेदिनी । अहङ्कारः परां कोटिमारोहति कुतस्तव ? ॥ ३४६ ॥ इति श्लेषानुविद्यानामन्येषाञ्चोपलक्ष्यताम् । व्याजस्तुतिप्रकाराणामपर्यन्तस्तु विस्तरः ॥ ३४७ ॥ व्याजस्तुतिः । अर्थ श्लेषमूलां व्याजस्तुतिं दर्शयति पुंस इति । हे राजन् ! त्वया पुरणात् श्राद्यात् वृद्धाच्च पुंसः श्रच्छिद्य श्राकृष्य श्रीलक्ष्मीः सम्पत्तिश्च परिभुज्यते । इक्ष्वाकुवंशस्य इक्ष्वाकुवंशौयस्य तव इदं किं युज्यते ? आदिपुरुषादाच्छिन्नायाः लक्ष्याः सम्भोगः इक्ष्वाकुवंशीयस्य तव न योग्य इति निन्दया अतिप्रभूतास्ते सम्पद इति स्तुतिर्गम्यते अत्र पुराणपदे श्रीपदे च अर्थगतश्लेषवशात् ससधिकचारुता स्फुटं प्रतीयत इति बोध्यम् ॥ २४५ ॥ शब्दश्लेषमूलामुदाहरति भुजङ्गेति । भुजङ्गानां भोगाः शरीराणि तैः संसक्ता अन्यत्र भुजङ्गानां जाराणां भोगे संसक्ता मेदिनी तव कलत्र' भाय्या पाल्या च, तथापि तव अहङ्कारः परां कोटिम् प्ररोहति कुत: ? अत्र भुजङ्गादिशब्दानामनेकार्थत्वात् शब्दश्लेषमूला व्याजस्तुतिरियम् ॥ २४६ ॥ . व्याजस्तुतिमुपसंहरति इतीति । इति उक्तरूपाणां श्लेषाविधानां तथा अन्येषाञ्च अलङ्कारमूलानां व्याजस्तुतिप्रकाराणाम् अपयन्तः अशेषः विस्तरः उपलक्ष्यतां ज्ञायताम् ॥३४७॥
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy