________________
हितीयः परिच्छी दः ।
१४१
दत्त्वोदाहरगहन्द जामको वर्णयिष्यते ॥ २४१ ॥ उत्प्रबालान्यरण्यानि बाप्यः संफुल्लपसनाः । चन्द्रः पूर्णश्च कामेन पान्यष्टविषं कृतम् ॥२४२॥ मानयोग्यां करोमौति प्रियस्थानस्थितां सखीम्। बालाभ भङ्गजिह्माक्षी पश्यति स्फुरिताधरा॥२॥३॥ मान्दोलितेत्यायुदाहरणे इति शेषः । शेषयोः उक्तावशिष्टयोः इयोः विकार्यप्राप्ययोरित्यर्थः उदाहरणहन्द दत्वा दर्शयित्वा ज्ञापको हेतुः वर्णयिष्यते। प्रतिज्ञेयं शिष्याणामुत्कण्ठावारणायेति बोध्यम् ॥ २४१ ॥
विकार्यहेतुं दर्शयति उत्प्रबालानौति। अरण्यानि उत्प्रबालानि उगतपल्लवानि, वाप्यः दीर्घिका: संफुल्लानि पकजानि यासु ताः, तथा चन्द्रः पूर्णश्च, अत: कामेन पान्थदृष्टेः पथिकनयनस्थ विषं कृतम् उक्तानामेव त्रयाणामतीवोद्दीपक तया सन्तापकत्वादिति भावः । अत्र उक्तत्रयं विषं कृतं विषी भावरूपं विकारमापादितमिति आरोपरूपवैचित्रास्यैव हेत्वलङ्कारत्वम् अनेवंविधे सुवर्णं कुण्डलं करोतीत्यादी विकारस्य सत्यतया वैचित्रवाभावाबालङ्कारतेति बोध्यम् ॥ २४२ ॥
प्राप्यतुं दर्शयति मानयोग्यामिति। बाला मुग्धा काचित् भुवोर्भङ्गेन जिह्मे अक्षिणी यस्याः सा, तथा स्फुरितः कम्पितः अधरो यस्यास्तादृशी सती मानयोग्यां मानाभ्यामम् अभ्यासः खुरली योग्येत्यमरमाला। करीमीत्यभिप्रेत्येति शेषः प्रियस्य स्थाने सकाशे स्थिता सखीं पश्यति निरीक्षते । अत्र सखौमिति प्राप्यकर्मापेक्षी बालायास्तादृशसकोपनिरीक्षणे हेतुरिति बोध्यम् ॥ २४३ ॥