________________
१३३
काव्याद” मध्यन्दिनार्कसन्तप्तः सरसौं गाइते गजः । मन्ये मार्तण्डरचाणि पद्मान्युबर्तृमुद्यतः ॥२२२॥ प्रकारेण अप्रस्तुतखरूपत्वेन उत्प्रेक्ष्यते सम्भाव्यते तामुत्प्रेक्षा विदुः। यवेत्यत्र यत्त्विति पाठे क्रियाविशेषणम्। यदुत्प्रेक्षणमित्यर्थः। उक्तञ्च प्रकाशकारण, सम्भावनमथोत्प्रेक्षा इति। संभावनं हि उत्कटकोटिकः संशयः, तच्च प्रस्तुतस्य निगरणेन भवति, निगरणच कचित् प्रस्तुतस्य अनुपादान क्वचिदुपात्तस्यापि अधःकरणम् । यथा, विषयस्यानुपादानऽप्युपादानेऽपि सूरयः । अधःकरणमात्रेण निगौर्णत्वं प्रचक्षते इति। दर्पणकारस्तु भवेत् सम्भावनोत्प्रेक्षा प्रकृतस्य परात्मना। वाच्या प्रतीयमाना सेति लक्षणं कृत्वा जातिगततया चास्या विविधभेदानाह ॥ २२१ ॥
चेतनागतामुत्प्रेक्षामुदाहरति मध्येति। मध्यन्दिनार्केण मध्याह्नसूर्येण सन्तप्तः गजः सरसी गाहते अवतरति। पत्रोत्प्रेक्ष्यते मन्ये इति, मातंगहरयाणि सूर्यपक्षान् पद्मानि उद्दतुम् उन्मूलयितुम् उद्यतः इति मन्ये सम्भावयामौत्यर्थः । अत्र सन्तप्तस्य चेतनस्य गजस्य मानपानाद्यर्थकतया स्थितं सरोऽवगाहनं शत्रुपक्षोद्धरणार्थत्वेनोत्प्रेक्षितम्। मन्ये इति पदमुत्प्रेक्षाव्यचकम् । अत्र च सन्तापकस्य प्रतीकाराक्षमण गजेन तत्पक्षस्योद्धरणात् प्रत्यनीकालङ्कारः । तदुक्तां, प्रत्यनौकमशोन प्रतीकारे रिपोर्यदि। तदीयस्य तिरस्कारस्तस्यैवोत्कर्षसाधक इति। तदनयोः सङ्कर इति कैश्चिदुक्तं तन मनोरमं तत्पक्षोहरणस्य सम्भावनामावविषयत्वेन कविनोक्तत्वेन प्रतात्त्विकत्वात्, यत्र तु तत्पक्षापकारस्तात्त्विकस्तवैव तदलङ्कार इति सुधीभिश्चिन्तनीयम् ॥ २२२ ॥