________________
द्वितीयः परिच्छदः ।
1
विवक्षा या विशेषस्य लोकसोमातिवर्त्तिनी असावतिशयोक्तिः स्यादलङ्कारोत्तमा यथा ॥ २१४॥ मल्लिकामालधारिण्यः सर्वाङ्गीणार्द्रचन्दनाः । चौमवत्यो न लक्ष्यन्ते ज्योत्स्नायामभिसरिकाः २१५ चन्द्रातपस्य बाहुल्यमुक्तमुत्कर्षवत्तया ।
१२६
अतिशयोक्तिमाह विवक्षेति । विशेषस्य प्रस्तुतवस्तुगतस्य उत्कर्षस्य लोकसीमा लोकमर्य्यादा तस्या अतिवर्त्तिनी अलीकिकचमत्कारशालिनी या विवक्षा उक्ति:, अत्र स्वार्थे सन्प्रत्ययो बोद्धव्यः । असौ अलङ्कारेषु उत्तमा सर्वालङ्कारश्रेष्ठा इत्यर्थः अतिशयोक्तिः स्यादित्यन्वयः । उक्तञ्चाग्निपुराणे, लोकसोमातिवृत्तस्य वस्तुधर्मस्य कोर्त्तनम् । भवेदतिशयो नाम सम्भवोऽसम्भवो विधेति ॥ २१४ ॥
1
अतिशयोक्तिमुदाहरति मझिकेति । अभिसारिकाः कान्तार्थिन्यः, कान्तार्थिनौ तु या याति सङ्केतं साभिसारिकेति । मल्लिकानां माला मल्लिकामालं तस्य धारिण्यः, सर्वाङ्गीणं सर्वाङ्गव्याप्तम् आर्द्रं चन्दनं यासां ताः, तथा क्षौमं पट्टवसनं विद्यते यासां ताः परिहितश्वेतपट्टवसना इत्यर्थः, अतएव ज्योत्स्नायां न लक्ष्यन्ते । अत्र ज्योत्स्नावर्णनस्य प्रस्तुतत्वात् तस्याः श्वेतत्वं मल्लिकामालादिक्कतनायिका श्वेतत्वाभिन्नतया वर्णनात् समधिकत्वेन प्रतीयते, अथवा ताट्टशरजन्याम् अभिसारिकाणामलक्ष्यत्वासम्भवेऽपि अलक्ष्यत्वकथनात् प्रस्तुताया: ज्योत्स्नायाः श्वेतत्वस्य सम्यगुत्कर्षः प्रतीयते ॥ २१५ ॥
उक्तोदाहरणे लक्षणं योजयति चन्द्रातपस्येति ।
अत्र