________________
द्वितीयः परिच्छेदः ।
सुन्दरी सा न वेत्यष विवेकः केन जायते । प्रभामात्रं हि तरलं दृश्यते न तदाश्रयः ॥ १२६ ॥ धर्म्याचे पोऽयमाक्षिप्तो धर्मों धर्मं प्रभाह्वयम् । अनुज्ञायैव यद्रूपमत्याश्चर्यं विवचता ॥ १३० ॥ चक्षुषौ तव रज्येते स्फुरत्यधरपल्लवः ।
वौ च भुग्नौ न तथाप्यदृष्टस्यास्ति मे भयम् १३१ स एष कारणाक्षेपः प्रधानं कारणं भियः । खापराधो निषिsisव यत् प्रियेण पटीयसा १३२
१०१.
आक्षिप्तं प्रतिषिद्धं तस्मात् अयं धर्मस्य मार्दवरूपस्य आक्षेपात् धर्माक्षेपः ॥ १२७ ॥ १२८॥
धर्म्याचेपमुदाहरति सुन्दरीत्यादि । अत्र सा सुन्दरी नायिका वर्त्तते इति शेषः न वा इत्येषः विवेकः निश्चयज्ञानं केन कथं जायते न कथमपीत्यर्थः, हि यतः तरलं चञ्चलम् इतस्ततः विसृमरमित्यर्थः प्रभामात्रं दृश्यते, तस्य प्रभामात्रस्य आश्रयः आधारभूता नायिका न । अत्र अत्याश्वर्यं रूपं विवक्षता नायकेन प्रभाह्वयं प्रभारूपं धर्मम् अनुज्ञाय एव संस्थाप्यैव धर्मी तदाश्रयभूता नायिका आक्षिप्तः प्रतिषिद्ध इति अयं धर्म्याक्षेपः ॥ १२८ ॥ १३० ॥
कारणाक्षेपमुदाहरति चक्षुषी इत्यादि । तव चक्षुषी रज्यते आरक्ते भवतः, अधरः पल्लव इव स्फुरति, भ्भ्रुवौ च भुग्नt वक्रकृतौ, तथापि भयकारणे सत्यपीत्यर्थः दुष्टस्य निरपराधस्य मे भयं नास्ति । अत्र पटीयसा सुनिपुणेन थियेल भियः प्रधानं कारणं वापराधः निजकृतदोषः यत् यस्मात्