________________
द्वितीयः परिच्छेदः ।
विकसन्ति कदम्बानि स्फुटति कुटजद्रुमाः । उन्मीलन्तिच कन्दल्यो दलन्ति ककुभानिच ११७ उत्कण्ठयति मेघानां माला वृन्दं कलापिनाम् । यूनाञ्च्चोत्कण्ठयत्येषः मानसं मकरध्वजः ॥ ११८ ॥ जित्वा विश्व भवानव विहरत्यवरोधनैः । न्तरे तत्पदस्यानुपादानेऽपि वाक्यान्तरीयपदस्य अनुषङ्गादिना अन्वयनिर्वाह इह तु तदर्थकपदान्तरस्य तत्पदस्यैव वा पुनरुपादानमित्यनयोर्भेदः । भोजराजेन तु श्रवृत्तित्रयं दीपकस्यैव भेद इत्युक्तम् । यथां दोपकनिरूपणे, अर्थावत्तिः पदावृत्तिरुभयावृत्तिरावली । सम्पुटं रसना माला चक्रवालच सदा ॥ इति ॥ ११६ ॥
अर्थावृत्तिमुदाहरति विकसन्तौति । कदम्बानि विकसन्ति कुटजद्रुमाः स्फुटन्ति, कन्दल्यः उन्मीलम्ति ककुभानि दलन्ति । वर्षावर्णनमिदम् । अव विकसन्तीत्यादिपदं भिन्नप्रकृतिकमपि एकार्थत्वेनेति श्रर्थस्य पुनरावर्त्तनात् अर्थाष्टत्तिस्थिम्
॥ ११७ ॥
पदावृत्तिमाह उत्कण्ठयतीति । मेघानां माला कलापिनां वृन्दम् उत्कण्ठयति, एषः मकरध्वजः यूनां मानसम् उत्कण्ठयति च मेघानाम् उद्दीपकत्वात् इति भावः । अत्र प्रथमम् उत्कण्ठयति इति पदस्य श्रानन्दोदयात् दिदृचया उदग्रोव - करणरूपोऽर्थः, अपरम् उत्कण्ठ्यतीति पदस्य श्रीसुकावशीकरणरूपोऽर्थः तस्मात् उत्कण्ठयतीति पदमावस्य पुनरावृत्तिः न तु अर्थस्येति पदावृत्तिः ॥ ११८ ॥
उभयावृत्तिमाह नित्वेति । अत्र भुवि भवान् विश्व' जित्वा
·