SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ १ परिच्छेदः ] प्राकृतपिङ्गलसूत्रम् । अथ च सर्वदेशे पिकः पञ्चमं कूजति । शीतलपवनो मलयानिलः मलयकुहरस्थनववल्लीभवतां प्रेरयित्वा लघु मन्दं वहति । एवं वसन्ते जाते सति चित्तं च मनोभवशरो हन्ति । दूरे दिगन्तरे कान्तः । कथमिदानीमात्मानं स्थापयिष्यामि । एवं पतितं दुरन्तं दुःखमिति । एतस्या एवान्यत्र नवपदमिति नामान्तरम् । उट्टवणिका यथा – II, III, ऽ ॥, । ऽ।, ॥ ऽ, IS I, III, SI, SII, ISI, SII, III, III, II, III, III, ISI, SII, SIIS, II, III, SIIS, IIS, I, SIIS, IIS, III, IIIIII, IIS, I, अथैतस्य छन्दसः सप्त भेदा भवन्तीति नामतस्तानुद्दिशति - करही गंदा मोहिणी चारुणि तह भद्द | असेण तालंक पिअ सत्त वत्थु णिष्कंद ॥ १०८ ॥ [करभी नन्दा मोहिनी चारुसेना तथा भद्रा । राजसेना तालङ्किनी प्रिये सप्त वस्तूनि निष्पन्नानि ॥] करभी, नन्दा, मोहिनी, चारुसेना, भद्रा, राजसेना, तालङ्किनी, इति प्रिये सप्त भेदा वस्त्वपरनामकरड्डाच्छन्दसो निष्पन्नाः । दोहा च्छन्दः ॥ तेषां लक्षणमाह - पढमतीअपञ्चमपअह तेरह मत्ता जासु | बीअत्थएअरहहिँ करहिं भणिज्जसु तासु ॥ १०९ ॥ [प्रथमतृतीयपञ्चमपदेषु त्रयोद शमात्रा यस्याः । द्वितीयचतुर्थयोरेकादश करहीं भणति ताम् ||] प्रथमतृतीयपञ्चमपदेषु यस्यास्त्रयोदश मात्रा: । अथ च द्वितीयचतुर्थयोरेकादश मात्रा: । एवं पश्च पदानि, एतदग्रे दोहा यस्यास्तां करभीं भणति । दोहा च्छन्दः ॥ पढमती पञ्चमपअह मत्त होइ दहचारि । बीअचउत्थएआरहहिँ णंद भणिज्ज विआरि ॥ ११० ॥ [प्रथमतृतीयपञ्चमपदेषु मात्रा भवन्ति चतुर्दश । द्वितीयचतुर्थयोरेकादश नन्दां भणति विचार्य ॥ ] यस्याः प्रथमतृतीयपश्चमपादेषु चतुर्दश मात्रा: । द्वितीयचतुर्थयोरेकादश, तां विचार्य दोहां च दत्वा नन्दां भणति । दोहा च्छन्दः ॥ पढमतीअपञ्चमपअह् णव दह मत्ता जासु । बीच उत्थरआरहहिँ तं मोहिणि मुणिआसु ॥ १११ ॥ १. 'कलभी' रवि ० . २. 'चारुसेनी' रवि ० ३ 'राजसेनः ' रवि ०.४. 'ताळङ्कः' रवि ०.. •
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy