SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ १ परिच्छेदः ] प्राकृतपिङ्गलसूत्रम् । चतुर्थे एकादश, पञ्चमे पञ्चदशानयन्तु, ६९ अष्टषष्टिं पूरयन्तु, अग्रे दोहां दत्थ राजसेनः सुप्रसिद्धामिति रड्डां भणति इमाम् ||] प्रथमे पदे पञ्चदश मात्रा विरचय | पढ़े द्वितीये द्वादश । तृतीयस्थाने पञ्चदशमात्रा जानीत | चतुर्थे एकादश मात्रा: । पञ्चमे पञ्चदश मात्रा आनयन्तु । एवं पञ्चपदेषु अष्टषष्टिं मात्राः पूरयन्तु । अग्रे दोहां दत्थ । राजसेनो नाम राजा सुप्रसिद्धामिमां रहां भति । इदमप्युदाहरणम् ॥ एतस्या एव गणनियममाह - विसम तिकल संठवहु तिष्णि पाइक करहुलइ, अंत रिंद किं विप्प पढम वे मत्त अवरपइ, समपअ तिअ पाइक सव्वलहु अंत विसज्जहु, चउठाचरण विचारि एक लहु कट्ठिअ लिज्जसु, ऍम पंच पाअ उटवण्ण कइ वत्थूणाम पिंगल कुणइ, ठवि दोसहीण दोहाचरण राअसेण रड्डह भणइ ॥ १०७ ॥ [विषमे त्रिकलं स्थापयन्तु त्रयः पदातयः क्रियन्तां, अन्ते नरेन्द्रः किंवा विप्रः प्रथमं द्वे मात्रे अपरपदे, समपदे त्रयः पदातयः सर्वलघुमन्ते विसर्जयन्तु, चतुर्थचरणे विचारयित्वैकं लघुमाकृष्य गृह्णन्तु, एवं पञ्चसु पादेषवणिकां कृत्वा वस्तुनाम पिङ्गलः करोति, स्थापयित्वा दोषहीनं दोहाचरणं राजसेनो डां भणति ॥] विषमे पदे प्रथमतृतीयपञ्चमे प्रथमं त्रिकलं स्थापयन्तु । ततस्त्रयः पदातयः चतुष्कलगणाः क्रियन्ताम् । अत्र प्रथमपादस्यान्ते नरेन्द्रो भगणः । किंवा विप्रगणः चतुर्लध्वात्मको भवति । ततोऽपरत्र समे द्वितीये चतुर्थे च द्वे मात्रे प्रथमतो दत्वा त्रयः पदातयः चतुष्कलास्त्रयोगणाः, पूर्वस्थापितमात्राद्वयेन सह कर्तव्या इत्यर्थः । सर्वेषु पदेषु लघुमन्ते १. ‘संस्थापय' रवि ०. २. 'गृहाण' रवि ० ३. 'संस्थाप्य' रवि ०. ४. 'रड्डा भण्यते' रवि ०.
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy