SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। विप्रो भवति द्वात्रिंशता क्षत्रियं द्विचत्वारिंशता कुरुत, अष्टचत्वारिंशता लघुमिवैश्यं शेषैः शूद्रं सुश्लाध्यम्, चतुरधिका पदे विंशतिर्मात्राः षण्णवतिं स्थापयत, पञ्चचत्वारिंशन्नामभिः काव्यलक्षणं कुरुत, षड्रिंशतिमुल्लालस्यैकीकृत्य द्विपादस्य षट्पदं जानीत, समवर्ण सदृशसमदोषगुणं नामान्येकसप्ततिं जानीत ॥] द्वात्रिंशलघुभिर्विप्रो भवति । ततो द्विचत्वारिंशद्भिर्लघुकैः षट्पदं क्षत्रियो भवति । ततोऽष्टचत्वारिंशदवधिकैर्वैश्यो भवति । उर्वरितैः शेषैः शूद्रो भवति । इति तं सलहिज्जसु सुलाध्यं कुरु । उल्लालरहितायाश्चतुष्पद्याः पदे चतुरधिकां विंशतिं मात्राः स्थापय । एवं च पिण्डसंख्यां मात्राषण्णवतिरूपां पादचतुष्टये स्थापय । ततश्च पश्चचत्वारिंशन्नामभिः काव्यलक्षणं कुरु । अथोल्लालच्छन्दसः षड्डिशतिगुरुनेकीकृत्य पादद्वयाभ्यां षट्पदं जानीत । समवर्ण सदृशदोषगुणम् । यथा काव्यस्य दोषगुणास्तथा षट्पदस्यापि भवन्तीत्यर्थः । तथा च षट्पदस्यापि एकसप्ततिनामानि परिशृणु । पश्चचत्वारिंशन्नामानि काव्यस्य, षड्विंशतिरुल्लालायाः संभूय एकसप्ततिरिति । षट्पदी छन्दः ॥ अथोल्लालालक्षणम् तिणि तुरंगम तिअल तहँ छहचउतिअ तहँ अंत । इमि उल्लाला उट्टवहु विहुदल छप्पणमंत ॥ ९६ ॥ [त्रयस्तुरंगमास्त्रिकलस्ततः षट्चतुस्त्रयस्ततोऽन्ते । अनेनोल्लाला ........ द्विदलाभ्यां षट्पञ्चाशन्मात्राः ॥] प्रथमं तुरंगमास्त्रयश्चतुष्कलगणास्त्रयः, ततस्त्रिकलः, तदनन्तरं षट्कलः, ततः चतु. कलः, ततस्त्रिकल:, संभूयाष्टाविंशतिः कलाः प्रथमचरणे । एवमुल्लालामुट्टवणिकया संक्षिप्तां कुर्वन्तु । तथा च द्वाभ्यां दलाभ्यां षट्पश्चाशन्मात्रा भवन्ति । दोहाच्छन्दः ॥ अथ शाल्मलीप्रस्तारं दर्शयिष्यंस्तत्र पूर्व सर्वगुरुभेदमुदाहरति-जहा (यथा) 'जाआधंगे सीसे गङ्गा लोलन्ती, सव्वासा पूरंती दुःखा तोटंती, णाआराआ हारा दीसा वासंता, वेआला जासंगे दुव्वा णासंता, णाचंता उच्छाहे ताले भूमी कंपाले, जादिढे मोक्खाआ सो तुह्माणं सुक्खादो ।'
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy