SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ५२ काव्यमाला | [आदावन्ते द्वये षट्कलस्त्रयस्तुरंगमा मध्ये | तृतीये जगणो वा विप्रगणः काव्यलक्षणं बुध्यस्व ||] आदावन्ते च यत्र षट्कलगणो गणस्थानद्वये । मध्ये यत्र तुरंगमाश्चतुष्कलास्त्रयो गणाः, तत्र तृतीयो जगणो भवति । किंवा विप्रगणश्चतुर्लघ्वात्मको गणः । तत्काव्यं छन्दः । एतल्लक्षणं बुध्यस्व । यदा काव्याभिधेयमेव छन्दः क्रियते तदैव जगणस्तृतीयो भवति । लघूल्लालेन समं क्रियते तदा न नियमः । तत्र एकादशसु विश्राम इत्याशयः । दोहाछन्दः ॥ अथानन्तरं लघुद्वयह्रासेनैकैकगुरुवृद्धया काव्यस्य पञ्चचत्वारिंशद्भेदान्दर्शयिष्यन्सर्वलघुकं शक्रनामकं वृत्तमाह चउ अग्गल चालीस गुरु एककें गुरु देहु । जो गुरु हीणउ सक सोइ णामग्गहण कुहु ॥ ८९ ॥ [ चतुरधिकाश्चत्वारिंशदुख एकैकान्गुरून्दत्थ । यद्गुरुहीनं शक्रं तन्नामग्रहणं कुरुत ॥] चतुरधिकाश्चत्वारिंशद्गुरव एकैकगुरुवृद्धिक्रमेण दातव्याः । यद्गुरुहीनं सर्वलघुकं तच्छक्रनामकं छन्दः। ततो लघुद्वयद्वासेन एकैकगुरुवृद्ध्या नामग्रहणं कुरुत। दोहाछन्दः॥ शक्रमुदाहरति - जहा (यथा) - 'जसु कर फणिवइवलअ तरुणिवर तणुमँहँ विलसइ, णअण अणल गल गरल विमल ससि जैसु सिर णिवस | सुरसरि सिरमँहँ रहइ सअलजणदुरितदलणकर, हँसि ससिहर हर दैरिअ वितर हर अतुलअभभवर ॥ [यस्य करे फणिपतिवलयस्तरुणिवरा तनुमध्ये विलसति नयनेऽनलो गले गरलं विमलः शशी यस्य शिरसि निवसति । सुरसरिच्छिरोमध्ये वसति सकलजनदुरितदलनकर हसित्वा शशिधर हर दुरितं वितर हरातुलमभयवरम् ||] कश्चिद्भक्तः शिवं प्रार्थयते — यस्य तव करे फणिपतेः शेषस्य वलयः कंकणं विलसति । तनुमध्ये वरतरुणी पार्वती विलसति । नयने अलिकस्थतातयलोचनेऽनलो ज्वलति । गले च गरलं विलसति । विमलः शशी निष्कलङ्कश्चन्द्रो यस्य तव शीर्षे निवसति । सुरसरिन्मन्दाकिनी शिरसि वसति । एवंविध, हे सकलजनदुरितदलनकर, शशिधर, १. 'ससहर' रवि ० . २. 'वह' रवि ० ३. 'दिसउ' रवि ०. ●
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy