SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ४४ काव्यमाला । यथा - १३ गु. ७० ल. ९६ मा. कुन्दः । १२ गु. ७२ ल. ९६ मा करतलः । ११ गु. ७४ ल. ९६ मा. मेघ: । १० गु. ७६ ल. ९६ मा तालाङ्कः । ९ गु. ७८ ल. ९६ मा. कालरुद्रः । ८ गु. ८० ल. ९६ मा. कोकिलः । ७ गु. ८२ ल. ९६ मा कमलम् । ६ गु. ८४ ल. ९६ मा इन्दुः । ५ गु. ८६ ल. ९६ मा. शंभुः । ४ गु. ८८ ल. ९६ मा. चामरः । ३ गु. ९० ल. ९६ मा. गणेश्वरः । २ गु. ९२ल. ९६ मा. सहस्राक्षः । १ गु. ९४ ल. ९६ मा शेषः । इति त्रयोदश भेदान्भणति नागराजः । फणीश्वरो जल्पति । त्रयोदशगुरुसंख्या मानय । एकादश गुरून्दत्थ । द्वौ द्वौ लघू प्रतिचरणाभिप्रायेणापीति भावः । अथवा त्रयोदशाक्षरेषु गुरुषु अक्षरमक्षरमेकैको गुरुर्यदि पतति लघुद्वयं च वर्धते तदा तत्तन्नाम जानीत । एतेषामुदाहरणमञ्जर्यामुदाहरणानि द्रष्टव्यानि । राछन्दः ॥ अथ गन्धाछन्द: दहसत्तवण्ण पढम पअ भणह सुअणा, तह बीअम्म अठारहि जमअजुअचरणा । एरिसि अ बीअदल कुणह भणइ पिङ्गलो, गन्धाणा णाम रूअ उहो पिण्डि अजणचित्तहलो || ७९ ॥ [दशसप्तवर्णान्प्रथमे पदे भणत सुजनाः, तथा द्वितीयेऽष्टादश यमकयुगचरणा । एतादृशं च द्वितीयदलं कुरुत भणति पिङ्गलः, गन्धाना नाम रूपकं भवति पण्डितजनचित्तहरम् ||] भोः सुजनाः, सप्तदशवर्णान्प्रथमचरणे भणत । तथा द्वितीयचरणेऽष्टादशभिर्वर्णैरुपलक्षिता यमकयुगचरणा । यमकद्वययुक्तचरणेत्यर्थः । एतादृशमेव द्वितीयदलं कुरुतेति भणति पिङ्गलः । गन्धाना नाम रूपकं पण्डितजनचित्तहरं भवति । अत्र यमकत्वाद्रलयो - रैक्यमिति । वाणीभूषणेऽप्युक्तम्- 'दशसप्तवर्णमिह रचय प्रथमचरणं द्वितीयमष्टादल (श)कलितमिति हृदयहरणम् । ईदृशमुत्तरदलमपि हृदयसंधानकं नागपतिपिङ्गलभणितमिति शृणु गन्धानकम् ॥ इदमप्युदाहरणम् ॥ पुनरपि शिष्यबोधनाय गन्धानकमेव स्पष्टीकृत्याह - दहसत्तक्खर संठवहु पढमचरण गन्धाण | बीए क्खर पुणु जमअ दइ अट्ठारहइ विआण ॥ ८० ॥ [ सप्तदशाक्षराणि संस्थापयत प्रथमचरणे गन्धाने । द्वितीयेऽक्षराणि पुनर्यमकं दत्वाष्टादशैव विजानीत | ]
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy