SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। [अक्षरोपरि द्विगुणानङ्कान्देहि जानीहि उद्दिष्टम् । लघोरुपरि योऽङ्कस्तं दत्त्वा एकेन जानीहि ॥] अयमर्थ:-चतुरक्षरप्रस्तारे द्वौ गुरू एको लघुः एको गुरुरिति गणः कुत्रास्तीति प्रश्ने कृते पृष्टं गणं लिखित्वा प्रथमं प्रथमगुरोरुपरि प्रथमाङ्को देनः । ततो द्विगुणान्द्विगुणानङ्कान्देहि । द्वितीयगुरोरप्युपरि द्वितीयोऽङ्कः तृतीये लघौ चतुरङ्कः चतुर्थे गुरावष्टमाङ्को देय इति द्विगुणत्वम् । एवं प्रकारेणोद्दिष्टं गणं कुरु । ततो लघोरुपरि योऽङ्कस्तत्राधिकमेकमङ्गं दत्त्वा तेन सहैक्ये कृते योऽको भवति तदङ्कसमाने स्थाने स गणोऽस्तीति । प्रकृते तु चतुर्थाङ्कोपरि एकमधिकं दत्त्वा पञ्चमोऽङ्कः कर्तव्यः तस्मात्पञ्चमस्थाने तादृशो गणोऽस्तीति ज्ञातव्यम् । भूषणेऽपि–'उद्दिष्टे वर्णोपरि दत्त्वा द्विगुणक्रमेणाङ्कम् । एकं लघुवर्णाङ्के दत्त्वोद्दिष्टं विजानीत ॥' गाथा छन्दः ॥ अथ वर्णानां नष्टमाहणढे अङ्के भाग करिज्जसु समभागहिँ तहिँ लहु मूणिज्जसु । विसम एक दइ वण्टण किज्जसु पिङ्गल जम्पइ गुरु आणिज्जसु॥३९॥ [नष्टेऽङ्के भागः क्रियतां समे भागे तत्र लघुरानीयताम् । विषमे एकं दत्त्वा वण्टनं क्रियतां पिङ्गलो जल्पति गुरुरानीयताम् ॥] अत्र भागो नाम नष्टाङ्कस्पार्धीकरणम् । यथा चतुरक्षरप्रस्तारे षष्ठो गणः किमाकार इति प्रश्ने षडङ्कभागं कृत्वा तदर्ध त्रयं स्थाप्यम् । अयं च समानो भागः । तत एको लघुलेख्यः । अनन्तरं द्वयस्य भागं कृत्वा एकं स्थाप्यम् । तदैको लघुर्लेख्यः । ततोऽप्यवशिष्टे विषमे एकं दत्त्वा एकस्य च भागं कृत्वा एकमेव स्थापनीयम् । तदैको गुरुर्लेख्यः । एवं च प्रथमे लघुरनन्तरं गुरुस्ततो लघुरन्ते गुरुरेवमाकारचतुरक्षरप्रस्तारे षष्ठो गण इति वेदितव्यम् । तथा च वाणीभूषणे-'नष्टे तु कल्पयेद्भागं समभागे लघुर्भवेत् । दत्त्वैकं विषमे भागः कार्यस्तत्र गुरुभवेत् ॥' एवं समे भागे लघुतिव्यः । विषमे एकं दत्त्वा पुनः पुनर्गुरुर्ज्ञातव्यः । अरिल्ला छन्दः॥ अथ वर्णमेरुंमाह अक्खरसंखे को? करु आइ अन्त पढमङ्क । सिर दुइ अङ्के अवरु भरु सूई मेरु णिसङ्क ॥ ४० ॥ [अक्षरसंख्यया कोष्टकं कुरु आद्यन्तयोः प्रथमाङ्कम् । शीर्ष द्वयाङ्केनापरं पूरय सूच्यते मेरुनिःशङ्कम् ॥] 'सूचय मेरुं निःशङ्कम्' इति वा । अयमर्थः-एकाक्षरादि षडिंशत्यक्षरपर्यन्तं स्वस्वप्रस्तारे कति सर्वगुरवः कत्येकादिगुरवः कति सर्वलघवः कति वा प्रस्तारसंख्येति प्रश्ने कृते १. 'अडर' रवि०.
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy