SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ १ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । अथ चतुर्लघोर्नामान्याह पढम एरिसि विप्पो बीए सरपञ्चजाइसिहरेहिं । दिअवरपरमोपाए होइ चउक्केण लहुएण ॥ २३ ॥ [प्रथमं स ऋषिविप्रो द्वितीये शरपञ्चजातिशिखरेण । द्विजवरपैरमोपायः भवति चतुष्केण लघुकेन ॥] प्रथमं नामेति स ऋषिः । विप्रः । द्वितीयं प्राकृते पूर्वनिपातानियमात्पञ्चशर इति । एकदेशग्रहणाच्छर इत्यपि । लक्ष्येषु तथा दर्शनात् । जातिः शिखरेण सह । द्विजवरः । परमः । उपायः । चतुष्कलेन लघुकेन एतानि नामानीत्यर्थः । गाथा छन्दः ॥ अथ पञ्चकलानां कानिचिदुभयवृत्तसाधारणानि नामान्याह-- सुणरिन्दअहिअकुञ्जरुगअवरुदन्ताइ दन्ति अह मेहो । एरावइतारावइगअणं झम्पं त लम्पेण ॥ २४ ॥ [सुनरेन्द्राहिककुञ्जरगजवरदन्ता दन्ती अथ मेघः । ऐरावतस्तारापतिर्गगनं झम्पस्तथा लम्पेन ॥] सुनरेन्द्रः । अहिकः । कुञ्जरः । गजवरः । दन्तः । दन्ती । अथेत्यानन्तर्ये । मेघः । ऐरावतः । तारापतिः । गगनम् । झम्पः । तथा लेम्पः । इति पञ्चमात्रस्यादिलघोर्नामानि । गाथा छन्दः ॥ अथ मध्यलघोः पञ्चमात्रस्य नामान्याह पक्खिविराडमअन्दहवीणाअहिजक्खअमअजोहलअम् । सुप्पण्णपण्णगासणगरुडविआणेहु मज्झलहुए ण ॥ २५ ॥ [पक्षीविराड्मृगेन्द्रवीणाहियक्षामृतजोहलकम् । __ सुपर्णपन्नगाशनगरुडा विजानीत मध्यलघुके ननु ॥ पक्षी । विराट् । मृगेन्द्रः । वीणा । अहिः । यक्षः । अमृतम् । जोहलकम् । सुपर्णः। पन्नगाशनः । गरुडः । मध्यलघुके पञ्चकले रगणापरनानि इति नामानि विजानीत । ण इति नन्वर्थे । उग्गाहा छन्दः ॥ अथ पञ्चकलस्यैव सामान्यनामान्याह बहुविविहपहरणेहिं पञ्चकलओ गणो होइ । [बहुविविधप्रहरणैः पञ्चकलको गणो भवति ।] १. 'चरमे पाए' रवि०. २. 'प्रथममीदृशि विप्रः' रवि०. ३. 'चरमे पादे' रवि०. ४. 'तल्पेन' रवि०. ५. 'वस्तुतस्तु शेषनागस्य सहस्राननत्वात्पुनरुक्तिर्न दोपाय' रवि०.
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy