SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ २ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । २१५ तस्या रजन्या हारा इव उद्यन्ति । अथ च-विकसितं कमलवनम्, अत एव परिमलाः सुगन्धाः कन्दा यत्र तादृशम् । अपि च सर्वाशासु काशाः भासन्ते मधुरश्च पवनः लहलहं करोति । मन्दमन्दसंचरणे 'लहम्' इत्यनुकरणम् । किं च हंसः सह कूजतीत्यर्थः । अतः पुष्पबन्धुः शरत्समयः सखि, हृदयं हरति रसोद्दीपकत्वेन हृदयहारको भवतीत्यर्थः ॥ यथा वा[णीभूषणे]-'श्रीकृष्णेन क्रीडन्तीनां क्वचिदपि वनभुवि मनसिजभाजां गोपालीनां चन्द्रज्योत्स्नाविशदरजनिजनितरतरतीनाम् । धर्मभ्रश्यत्पत्रालीनामुपचितरभसविमलतनुभासां रासक्रीडायासध्वंसी मुदमुपनयति मलयगिरिवातः ॥' उद्दवणिका यथा-ssssssss, m, m, n, , २२४४८८ ॥ यथा वा ग्रन्थान्तरे'सार्धे कान्तेनैकान्तेऽसौ विकचकमलमधु सुरभि पिबन्ती कामक्रीडाकूतस्फीतप्रमदसरसतरमलघु वसन्ती । कालिन्दीये पद्मारण्ये पवनपतनतरतरलपरागे कंसाराते पश्य स्वेच्छं सरभसगतिरिह विलसति हंसी ॥' हंसी निवृत्ता ॥ अथास्मिन्नेव प्रस्तारे ग्रन्थान्तरान्मदिरानामकं छन्दोऽभिधीयते सप्तभकारयुतैकगुरुर्गदितेयमुदारतरा मदिरा ॥ २६९ ॥ : यत्रैको गुरुरन्ते वर्तमानः सप्तभकारयुक् भगणसप्तकयुक्तो भवति तन्मदिराभिधानं छन्दो भवतीति ॥ यथामाधवमासि विकस्वरकेसरपुष्पलसन्मदिरामुदितै र्भङ्गकलैरुपगीतवने वनमालिनमालि कलानिलयम् । कुञ्जगृहोदरपल्लवकल्पिततल्पमनल्पमनोजरसं त्वं भज माधविकामृदुनर्तकयामुनवातकृतोपगमा ॥ २७० ॥ उद्ववणिका यथा-su, su, su, su, su, su, su, 5, २२४४=८८ ॥ मदिरा निवृत्ता ॥ अत्रापि प्रस्तारगत्या द्वाविंशत्यक्षरस्यैकचत्वारिंशल्लक्षाणि चतुर्नवतिसहस्राणि चतुरुत्तरं शतत्रयं च ४१९४३०४ भेदाः । तेषु भेदद्वयमुक्तम् । शेषभेदाः शास्त्ररीत्या प्रस्तार्य प्रतिभावद्भिरुदाहर्तव्या इति दिडात्रमुपदिश्यते ॥ अथ त्रयोविंशत्यक्षरप्रस्तारे सुन्दरीछन्दःजहि आइहि हत्थो करअल तत्थो पाअ लहूजुअ वङ्क तिआ ठवि सल्ल पहिल्लौ चमरहिहिल्लौ सल्लजुअं पुणु वङ्क ठिआ । पअन्तहि हत्थागण पभणिज्जे तेइस वण्ण पमाण किआ ___ ऍहु मत्तहि पाओं पइ पभणिज्जे वण्णहि सुन्दरिआ भणिआ२७१ १. कण्णगणा' (कर्णगणः) रवि०. २. 'ठवि चामरआकाहलजुअवङ्का सल्ल पहिल्लिअ वेविगणा (स्थापयं चामरं काहलयुगं वर्क शल्यं रवि०. ३. 'सक्का (शक्र) रवि० ४. 'पाआवइ (पद्मावति) रवि०. .
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy