SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ २०६ काव्यमाला। उध्वणिका यथा-ss, sss, , us, ssI, ss, S, १९४४-७६ ॥ छाया निवृत्ता॥ अथ सुरसाछन्दः___ नौ नौ यो नो गुरुश्चेत्स्वरमुनिकरणैराह सुरसाम् ॥ २५० ॥ भोः शिष्याः, यत्र नौ मगणरगणौ, अथ च नौ भगणनगणौ भवतः, ततो यो यगणः, ततो नो नगणः, अनन्तरं गुरुश्चेत् । अथ च–स्वरैः सप्तभिः, मुनिभिः सप्तभिः, करणैः पश्चभिः कृतविश्रामां सुरसामाह नागराज इति शेषः ॥ यथा 'कामक्रीडासतृष्णो मधुसमयसमारम्भरभसा त्कालिन्दीकूलकुञ्ज विहरणकुतुकाकृष्टहृदयः । गोविन्दो बल्लवीनामधररससुधां प्राप्य सुरसां शङ्के पीयूषपानप्रभवकृतसुखं व्यस्मरदसौ ॥' उद्दवणिका यथा-sss, sis,su, I,Iss, u,s,१९४४ =७६॥ सुरसा निवृत्ता॥ अथ फुल्लदामच्छन्दः मो गौ नौ तौ गौ शरहयतुरगैः फुल्लदाम प्रसिद्धम् ॥ २५१॥ भोः शिष्याः, यत्रादौ मो मगणः, ततो गौ गुरुद्वयम्, ततश्च नौ नगणद्वयम्, ततोऽपि तौ तगणौ भवतः, ततो गौ गुरुद्वयं भवति । किंच-शरहयतुरगैः पञ्चसप्तसप्तभिः पूर्वविपरीतैर्विरचितविरतिकं फुल्लदामनामकं प्रसिद्धं विख्यातं दत्तं भवतीति वित्त ॥ यथा'शश्वल्लोकानां प्रकटितकदनं ध्वस्तमालोक्य कंसं हृष्यच्चेतोभिस्त्रिदिववसतिभिर्योमसंस्थैर्विमुक्तम् । मुग्धामोदेन स्थगितदशदिगाभोगमाहूतभृङ्गं मौलौ दैत्यारे पतदनुपमं स्वस्तरोः फुल्लदाम ॥' उद्ववणिका यथा-sss, ss, ॥ ॥, ssi, ssi, ss, १९४४=७६॥ फुल्लदाम निवृत्तम् ॥ अत्रापि प्रस्तारगत्यैकोनविंशत्यक्षरस्य बाणलक्षं चतुर्विंशतिसहस्राण्यष्टाशीत्युत्तरं च शतद्वयं (५२४२८८) भेदाः । तेषु कियन्तो भेदा उक्ताः शेषभेदा विशेषशेमुषीकैराकराद्विचारेण वा प्रस्तार्य प्रस्तावनीया इति दिङ्गात्रमुपलक्षितमस्माभिरित्युपरम्यत इति ॥
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy