SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। [यथा न सहते कनकतुला तिलतुलितमर्धार्धेन । तथा न सहते श्रवणतुला अपच्छन्दस्कं छन्दोभङ्गेन ॥] अयमर्थ:-यथोभयपार्श्वसमायाः कनकतुलायास्तिलार्धदानेनापि वैषम्यं भवति तादृशमपि भारं न सहते तथैव श्रवणतुलापि छन्दोभङ्गेनापच्छन्दस्कं कवित्वं न सहते । तादृशं काव्यं तस्या भारायत इत्यर्थः । अत्र जेते इति जिह्वया लघूकृत्य पठनीयौ । गुरुत्वे छन्दोभङ्गः । गाहू छन्दः ॥ न केवलं छन्दोभङ्गेन श्रवणदुःखमपरमप्यनिष्टं भवतीत्याह अवुह बुहाणं मज्झे कव्वं जो पढइ लक्खणविहूणम् । भूअग्गलग्गखग्गहिं सीसं खुडिअं ण जाणेइ ॥ ७ ॥ [अबुधो. बुधानां मध्ये काव्यं यः पठति लक्षणविहीनम् । भुजाग्रलग्नखड्नेन शीर्ष खण्डितं न जानाति ॥] बुधानामधीतच्छन्दःशास्त्राणां मध्ये लक्षणविहीनं काव्यं यः पठति सोऽबुधः । मूर्ख इत्यर्थः । किं च भुजाग्रलग्नखड्नेन खण्डितमपि स्वशीर्ष न जानाति । भुजाग्रमङ्गलीमेव गमयेत्तेनोदस्तहस्ताङ्गल्येदमशुद्धं कवित्वमिति यद्रेखाकरणं तदेव खड्गायत इत्यर्थः । तेन शीर्षे कविस्व(त्व)रूपं खण्डितमिति न जानाति । यद्वा भुजाग्रलना ये खड्गा इव नखाः । एतेन 'छन्दोभङ्गे नखो देयः' इति प्राच्याः । गाथा छन्दः ॥ . अथ गुरुलघुज्ञानानन्तरं गणाः सावसरास्तत्र च्छन्दःशास्त्रे मात्राप्रस्तारो वर्णप्रस्तारश्चेति प्रस्तारद्वयं तत्र मात्राप्रस्तारे कलागणनापुरःसरं गणव्यवस्थां कुर्वनाह ट्ठडढाणह मज्झे गणभेआ होन्ति पञ्च अक्खरओ । छ.प.च.त.दा. जहसंखं छप्पञ्चचउत्तिदुकलासु ॥ ८ ॥ . [टठडढाणां मध्ये गणभेदा भवन्ति पञ्चाक्षरतः । छ. प. च. त. दा. यथासंख्यं षट्पञ्चचतुस्त्रिद्विकलासु ॥] अयमर्थः-टेठडढणाः पञ्चाक्षराणि षट्पञ्चचतुनिद्विकलानां यथासंख्यं संज्ञा भवन्ती'त्यर्थः । गाथा छन्दः ॥ १. 'मध्ये अक्षराणां पञ्चाक्षराणि गणभेदा भवन्ति । के ते । टठडढणाः । त एव यथासंख्यं छ. प. च. त. द. संज्ञका भवन्ति । कुत्र संकेतिताः । षट्पञ्चचतुस्त्रिद्विकलासु । तथा च षट्कलष्टगणः स नव छगणः । पञ्चकलष्ठगणः स एव पगणः । चतुष्कलो डगणः स एव चगणः । विकलो ढगणः स एव तगणः । द्विकलो णगणः स एव दगणः ।' रवि०.
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy