SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ १७२ काव्यमाला ।। अत्र(?) सखि चन्द्रमुखि विंशतिर्ल घुमालका कविवरः सर्पो भणति छन्दो निशिपालकम् ॥] हे सखि, पूर्व हारं गुरुं धारय ततस्त्रयः शराः । लघुत्रयमित्यर्थः । हिण्णि परि अनया परिपाट्या.त्रयो गणा गुर्वादि त्रिकलाः । पञ्चकला इत्यर्थः । अन्ते पञ्च[गण]कलगणत्रयावसाने रगणं मध्यलघुकं पञ्चकलमेव गणं कुरु ॥ तत्राक्षरनियममाह-अत्र छन्दसि पश्च गुरवः, पञ्च द्विगुणा [दश] लघवः । पदे पतन्तीति शेषः । मात्रानियममाह-हे च. न्द्रमुखि, एत्य निशिपालनानि वृत्ते विंशति घुमालाः (कलाः), तदेतनिशिपालाख्यं छन्दः कविषु वरो महाकवीन्द्रसर्पः पिङ्गलो भणतीति ॥ वाणीभूषणे तु प्रकारान्तरेणोक्तम्-'तालशररज्जुधररत्नवरसुन्दरं भावयुततालगतमन्त्यकृतचामरम् । शुद्धमतिनागपतिहृदयकृतसंगमं वृत्तनिशिपालमसिताक्षि हृदयंगमम् ॥' निशिपालमुदाहरति-जहा (यथा)जुन्झ भड भूमि पल उट्ठि पुण लग्गिा सग्गमण खग्ग हण कोइ णहि भग्गिआ। वीर सर तिक्खपर कण्ण गुण अप्पिा इत्थ तह जोह दह पाअ सह कप्पिा ॥ १९२॥ [युद्धे भटा भूमी पतन्ति उत्थाय पुनर्लगन्ति स्वर्गमना[:] खड्नेन हन्ति कोऽपि नहि पलायितः । वीरैः शरास्तीक्ष्णफलाः कर्णे गुणमर्पिताः इत्थं तथा योधा दंश पादेन सह कर्तिताः ॥] कश्चिद्वन्दी समरमुपवर्णयति-युद्धे समरे भटा योधा भूमौ पतन्ति, उत्थाय पुनर्लगन्ति च ।अभ्यमित्रमिति [शेषः]।ततश्च तादृशमहावीराहवे सकलोऽपि वीरवर्गः स्वर्गमनाः सन्नभिमुखं खङ्गेनैव धारातीर्थाशया हन्ति । अतश्च न कोऽपि हि पलायितः । अथच वी. रैस्तीक्ष्णफलाः शरा बाणाः कर्णे गुणं कृत्वा कर्णान्ताकृष्टशिञ्जिनीकं कार्मुकं विधायापिताः । परेष्वित्यर्थात् । इत्थं बाणपातनेनैव तथा दश योधा दशसंख्याकाः सुभटाः पा. देन चरणेन सह कप्पिआ कर्तिताः । खण्डशः कृता इत्यर्थः ॥ उद्दवणिका यथा-sm, su, sm, SIS, १५४४-६० ॥ यथा वाणीभूषणे]-'चन्द्रमुखि जीवमुषि वाति मलयानिले याति मम चित्तमिव पाति मदनानले । तापकरकामशरशल्यवरकीलितं मानमिह पश्य नहि कोपमतिशीलितम् ॥' निशिपालो निवृत्तः ॥ १. 'पुण्ण उठि' रवि०. २. 'पत्थे तह जोह दह चावे सह कम्पिआ (पार्थेन तत्र योजिता दश ततः सर्वे कम्पिताः) रवि०.३. 'स्वर्गमनसः खड्न नन्ति' इति छाया रवि०.
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy