SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ १२८ काव्यमाला। कक्षा। काचित्प्रोषितपतिका निजसखीमाह-हे प्रियसखि, 'वर्षासमयेऽहमागमिष्यामि' इति प्रतिज्ञाय प्रस्थितो वल्लभः । तदिदानीं नीपाः कदम्बाः पुष्पिताः, भ्रमरा द्विरेफा भ्रमन्ति, मेघा अपि जलसभरा नीरमिश्रिता दृष्टाः, विद्युत्सौदामन्यपि नृत्यति । अतः परमपि कथय कान्तः कदायास्यतीति । एतादृशेऽपि समये नागतश्चेनिश्चितं स कान्त एव सुखनाशकत्वात्, न तु वल्लभ इति भावः ॥ उवणिका-ss,ss,m,s; ९x४%3D ३६॥ पाइत्ता निवृत्ता॥ अथ कमलच्छन्दः सरसगणरमणिआ दिअगणजुअ पलिआ । गुरु धरिअ पइपउ दहकलअ कमलउ ॥ ८३ ॥ [सरसगणरमणीयं द्विजगणयुगं पतितम् । गुरुधियते प्रतिपदं दशकलकं कमलम् ॥] भोः शिष्याः, यत्र सरसौ रमणीयौ द्विजगणौ चतुर्लघुकगणौ पतितौ । पदान्ते च गुरुधियते । एवं पदे नव वर्णाः दश कलाश्च प्रतिपदं यत्र पतिताः, तत्कमलनामकं छन्द इति ॥ तथा च वाणीभूषणे-'द्विजवरकगणयुगं कलय गुरुविरतिगम् । भणति फणिपतिरिदं कमलपतिरतिपदम् ॥' कमलमुदाहरति-जहा (यथा) चल कमलणअणिआ खलइ थणवसणिआ । हसइ परणिअलआ असइ धुअ वहुलिआ ॥ ८४॥ [चलति कमलनयना स्खलति स्तनवसनम् । ___ हसति परनिकटेऽतोऽसती ध्रुवं वधूटिका ॥] चलति कमलनयना, स्खलति स्तनवसनम्, हसति परनिकटे, अत एव ध्रुवं निश्चितमियं वहुलिआ वधूटी असतीत्यहं मन्ये इति शेषः ॥ उद्दवणिका यथा-u, n, s, ९x४३६ कमलं निवृत्तम् ॥ अथ बिम्बच्छन्द: रइअ फणि बिम्ब एसो गुरुजुअल सव्वसेसो । सिरहि दिअ मज्झ राओ गुणह गुणि एसहाओ ॥ ८५॥ [रचितं फणिना बिम्बमेतद्गुरुयुगलं सर्वशेषे । शिरसि द्विजो मध्ये राजा गुणयत गुणिन एवंस्वभावम् ||] भो गुणिनः, स्वभावादेवं गुणयत नात्र काठिन्यं किंचिदिति भावः । यत्र गुरुयुगल १. 'सगण गण (सगणगुणम् । चतुर्लधुद्वयानन्तरं गुरुरिति यावत्) इति रवि०.
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy