________________
२ परिच्छेदः]
प्राकृतपिङ्गलसूत्रम् ।
[हारगन्धबन्धुरेण दृष्टाष्टाक्षरेण । द्वादशभिर्मात्राभिर्जानीहि मल्लिकासुच्छन्दोमानम् ॥]
हारो गुरुः, गन्धो लघुः ताभ्यां बन्धुरेण प्रथमं गुरुरनन्तरं लघुरेवं क्रमेण दृष्टान्यक्षराणि यत्रेति तादृशेन चरणेन द्वादशमात्रेण मल्लिकाख्यं छन्दो जानीहि ॥ तदुक्तं वाणीभूषणे - 'हारशङ्खकक्रमेण मण्डिताष्टवर्णकेन । वर्णिता कुतूहलेन मल्लिकेति पिङ्गलेन ॥ इयमेव ग्रन्थान्तरे 'समानिका' इत्युच्यते ॥ मल्लिकामुदाहरति — जहा (यथा) —
जेण जिण खत्तिवंस रिट्ठि मुट्ठि केसि कंस | बाणपाणि कट्टिएड सोउ तुझ सुक्ख देउ ॥ ७२ ॥ [येन जितः क्षत्रियवंशो रिष्टो मुष्टिः केशी कंसः । बाणपाणयः कर्तिताः स युष्यभ्यं सुखं ददातु ||]
१२३
·
येन भगवता धृतपरशुरामावतारेण क्षत्रियवंशो जित: । अथ च येन कृतकृष्णावतारेण अरिष्टो मुष्टिकः केशी कंसश्च जित इत्यनेनैवान्वयः । येन च बाणासुरस्य सहस्रबाहोः पाणयः कर्तिताश्छिन्नाः । स युष्मभ्यं सुखं ददातु ॥ उवणिका यथा - SISISisi; ex ४= ३२॥ मल्लिका निवृत्ता ॥
अथ तुङ्गाछन्द:
कमलभमरजीवो सअलभुअणदीवो । देलिअतिमिरडिंबो उअइ तरणिबिंबो || ७४ ॥ [कमलभ्रमरजीवः सकलभुवनदीपः ।
दलिततिमिरडिम्ब उदेति तरणिबिम्ब: ||]
9. 'सोइ देउ सुन्भ देउ' इति रवि ० २. 'तविअ ( तापित ) ' इति रवि ०.
तरलणअणि तुंगो पढमगण सुरंगो । णगणजुअलबद्धो गुरुजुअलपसिद्धो ॥ ७३ ॥
[ तरलनयने तुङ्गा प्रथमगणसुरङ्गा । नगणयुगलबद्धा गुरुयुगल प्रसिद्धा ॥]
हे तरलनयने, यत्र प्रथमगणेन गणः सुरङ्गो भवति । कति गणास्तत्रेत्यपेक्षायामाह - नगणयुगलेन बद्धो गुरुयुगलेन च प्रसिद्धस्तुङ्गाख्यं छन्दः । पूर्वे नगणद्वयम् अनन्तरं गुरुद्वयमिति फलितोऽर्थः । तदुक्तं भूषणे - द्विगुणनगणकर्णैः सुललितव सुवर्णैः । रसिकविहितरङ्गा प्रभवति किल तुङ्गा ॥
तुङ्गामुदाहरति