SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ २ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । ११९ • [कुंजराश्चलन्ति पर्वताः पतन्ति । कूर्मपृष्ठं कम्पितं धूल्या सूरश्छादितः ॥] कुंजरा दन्तावलाश्चलन्ति स्म अत एव पर्वताः पतन्ति । यद्वा पर्वतान्प्रेरयन्तो गजाश्वलन्ति स्मेति योजनीयम् । अतश्चादिकूर्मस्यापि पृष्ठं कम्पितं धल्या सूरस्तरणिः समाच्छादितः । इति कस्यचिद्वन्दिनश्चलति कर्णे राजनि वचनम् ॥ उध्वणिका यथाSISISIS; ७४४=२८ ॥ समानिका निवृत्ता ॥ अथ सुवासच्छन्दः भणउ सुवासउ लहु सुविसेसनु । रचि चतुमत्तह भगणइ अन्तह ॥ ६१ ॥ भण सुवासं लघुसुविशेषम् । रचयित्वा चतुर्मात्रकं भगणमन्ते ॥] हे प्रिये, यत्र लघवः सुतरां विशिष्यन्ते । तदेवाह-आदौ चतुर्मात्रकं विरच्य अन्ते भगणमादिगुरुगणं दत्त्वा सुवासनामकं छन्दो भण ॥ तदुक्तं वाणीभूषणे-'द्विजगणमाहर भगणमुपाहर । भणति सुवासकमिति फणिनायक ॥' सुवासकमुदाहरति-जहा (यथा) गुरुजणभत्तउ बहुगुणजुत्तउ । जसु तिय पुत्तउ स इ पुणमन्तउ ॥ ६२ ॥ [गुरुजनभक्ता बहुगुणयुक्ताः । यस्य त्रयः पुत्राः स एव पुण्यवान् ॥] गुरुजनभक्ता बहुगुणयुक्ता यस्य त्रयः पुत्राः स एव पुण्यवान् पुरुषः ॥ उध्वणिका यथा-15); ७४४२८ ॥ यथा च वाणीभूषणे-'गिरिवरनन्दिनि दुरितनिकन्दिनि । विहितनतो मयि कुरु करुणामयि ॥' सुवासको निवृत्तः ॥ अथ करहंची चरण गण विप्प पढम लइ थप्प । जगण तसु अन्त मुणइ करहंच ॥ ६३ ॥ [चरणे गणो विप्रः प्रथम......."स्थाप्यः । जगणस्तस्यान्ते जानीत करहंचीम् ॥] १. 'रइ चउमत्तह भगणह अन्तह' इति पाठं 'आदौ चतुर्मात्रकं विरच्यान्ते भगणः क्रियते' इति रविदासो व्याख्यातवान्. २. 'सुणह' क. 'भणिअ करइंच' इति पठित्वा 'करहंचो भण्यते' इति व्याख्यातं रविदासेन.
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy