SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ ११२ काव्यमाला । [या भर्तृभक्ता धर्मैकचित्ता | सा भवति नारी धन्या प्रिया ॥] या भक्ता धर्मैकचित्ता भवति सैव नारी धन्या प्रिया च भर्तुर्भवतीति भावः ॥ उवणिका यथा -- SSISS; ५x४ = २० ॥ हारी निवृत्ता ॥ अथ हंसच्छन्द: पिङ्गलदिट्ठो भ इ सिट्ठो । कण्णइ दिज्जो हंस मुनिज्जो ॥ ३८ ॥ [पिङ्गलदृष्टं भं दत्त्वा सृष्टम् । कर्णं दत्त्वा हंसं ज्ञातव्यम् ॥] , भोः शिष्याः पिङ्गलेन दृष्टं भगणं दत्त्वा पूर्व सृष्टम् पश्चात्कर्ण गुरुद्वयात्मकगणं दत्त्वा हंसाख्यं पञ्चाक्षरपदं छन्दो भवतीति ज्ञातव्यम् ।। अत एव वाणीभूषणे - 'पिङ्गलदिष्टो भादिविशिष्टः । कर्णयुतोऽसौ भामिनि हंसः ॥' हंसमुदाहरति- जहा (यथा ) - सो महकता दूर दिगन्ता । पाउस आवे चेउ डुलावे ॥ ३९ ॥ [ स मम कान्तो दूरे दिगन्ते । प्रावृडागता चेतश्चालयति ॥ ] काचित्प्रोषितपतिका सखीमाह - हे सखि, स मम कान्तोऽधुना दूरे दिगन्ते वर्तते । इयं च प्रावृट् आगता चेतश्चालयति । किमिदानीमाचरणीयमिति शिक्षयेति भावः ॥ उणिका यथा – SIISS; ५x४ = २० ॥ हंसो निवृत्तः ॥ - अथ यमकच्छन्दः - सुपिअगण सरसुगुण | सरह गण जमअ भण ॥ ४० ॥ [सुप्रियगणो शरसुगुणम् । श्लाघ्यमे........यमकं भण || ] १. रविदासेन तु 'सरस मण। सर ह गण जमअ गुण' इति पठित्वा 'तद्यमकं जानीत । यत्र सुप्रियो द्विलघुर्गणः । कीदृशः । सरसो रससंपूर्णः इति बुध्यस्व ॥ ततः शरस्त्रिलघुर्गणः संभवति' इति व्याख्यातम्.
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy