________________
८६
काव्यमाला ।
[विप्रगणसगणी पदे द्वावप्यन्ते विसृज हारम् । पश्चाद्दृदृष्ट्वा कवित्वं कुरु षोडश कलाः प्रस्तारे ||]
अत्र छन्दसि विप्रगणसगणावेव द्वौ गणौ पदे पततः । ततोऽन्ते हारं गुरुं विसर्जय । सगणस्यान्ते गुरुत्वात् सगण एव पदान्ते देय इत्यर्थः । छन्दसोऽन्वर्थकतामाह--- पदान्ते यदक्षरद्वयं तदेवाग्रिमपदादौ देयमित्यर्थः । अत एव सिंहावलोकनमिति ॥
तामुदाहरति - जहा (यथा) - हणुउज्जरगुज्जरराअदलं
दल दलिअ चलिअ मरहट्ठबलम् |
बल मोलिअ मालवराअकुला
कुल उज्जल कलचुलि कण्ण फुला ॥
[हतमुज्ज्वलगुर्जरराज्यदलं
दलेन दलितं चलितं महाराष्ट्रबलम् । बलेन मोटितं मालवराजकुलं
कुलोज्ज्वलः कलचुलिः कर्णः स्फुरति ॥]
कश्चित्कर्णमुपवर्णयति — हतमुज्ज्वलमतिस्फीतं गुर्जरराज्यस्य दलं सैन्यम् । येन दलेन स्वसेनासमुदायेन दलितं चूर्णीकृतम्, अत एव चलितं महाराष्ट्राणां बलं कटकम् । येन बलेन बलात्कारेण मोटितमुत्खातं मालवराजस्य कुलम् । एवंविधः कुलोज्ज्वलः क लचुलिवंशोद्भवः कर्णः फुला स्फुरति । अथवा स्फुटं सत्यम् । कर्ण एव कलावतीर्ण इति भावः ॥ उवणिका यथा - |||||||| |||||||||||||||||||S, |||||||||S
I
अथ लवंगमच्छन्द:
—
जत्थ पढम छअमत्त पअ पर दीसए
पंचमत्त चउमत्त गणा हि किज्जिए ।
संभल अंत लहू गुरु एक चाहए
मृद्धि पर्वगमछंद विभक्खण मोहए || १४१ ॥
[ यत्र प्रथमं षण्मात्रः पदे पदे दृश्यते पञ्चमात्रश्चतुर्मात्रो गणो नहि क्रियते । संस्मृत्यान्ते लघुर्गुरुरेकोऽपेक्षते
मुग्धे प्लवंगमच्छन्दो विचक्षणान्मोहयति ॥ ]