SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ — अलङ्कारसर्वस्वम् । अत्रायुःकर्तृकापराधाक्षिप्तस्याधन्यत्वस्यायुर्विरुद्धक्षयगतियुक्तंध. न्यत्वं विरुद्धं सामान्यरूपतया समर्थकत्वेनोक्तम् । कार्यकारण"तायां तु वैधयेणेदाहृतम् । हिशब्दाभिहितत्वानभिहितत्वादिभेदाः स्वयमेव बोद्धव्याः । चारुत्वातिशयाभावान्नेह प्रदर्शिताः। एवमप्रस्तुतप्रशंसानुषङ्गायातमर्थान्तरन्यासमुक्त्वा गम्यमानप्रस्तावागतं पर्यायोक्तमुच्यते. गम्यस्यापि भङ्गायन्तरेणाभिधानं पर्यायोक्तम् । अत्र यदेव गम्यते तस्यैवाभिधानं पर्यायोक्तम् । गम्यस्यैव सतः कथमभिधानमिति चेत्, न । गम्यापेक्षया प्रकारान्तरेणाभिधानस्यसम्भवात् । नहि तस्यैव तदैव तयैव विच्छित्त्या गम्यत्वं वाच्यत्वं च संभवति । अतः कार्यमुखद्वारेणाभिधानम् । कार्यादेरपि तत्र प्रस्तुतत्वेन वर्णनाईत्वात् । अत एवाप्रस्तुतप्रशंसातो भेदः । एतच वितत्याप्रस्तुतप्रशंसाप्रस्तावे निर्णीतमिति तत एवावधार्यम् । उदाहरणम्... 'स्पृष्टास्ता नन्दने शच्याः केशसंभोगलालिताः । . सावझं पारिजातस्य मार्यो यस्य सैनिकः ॥" अत्र हयग्रीवस्य कार्यमुखेन स्वर्गविजया वर्णितः । प्रभावातिशयप्रतिपादनं च कारणादिव कार्यादपि भवतीति कार्यमपि वर्णनीय. मेवेति पर्यायोक्तस्यायं विषयः । • गम्यत्वविच्छित्तिप्रस्तावाद्व्याजस्तुतिमाह स्तुतिनिन्दाभ्यां निन्दास्तुत्योर्गम्यत्वे व्याजस्तुतिः। । यत्र स्तुतिरभिधीयमानापि प्रमाणान्तराद्वाधितस्वरूपा निन्दायां पर्यवस्यति, तत्रासत्यत्वाद्वयाजरूपा स्तुतिरित्यर्थानुगमेन तावदेका : व्याजस्तुतिः । यत्रापि निन्दा शब्देन प्रतिपाद्यमाना पूर्ववद्वाधितरूपा - स्तुतिपर्यवसिता भवति, सा द्वितीया व्याजस्तुतिः । व्याजेन निन्दामुखेन स्तुतिरिति कृत्वा । स्तुतिनिन्दारूपस्य विच्छित्तिविशेषस्य भावादप्रस्तुतप्रशंसातो भेदः । क्रमेण यथा--.
SR No.023475
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorGaurinath Pathak
PublisherSharda Bhavan
Publication Year1983
Total Pages134
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy