SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ शारदा-ग्रन्थ-माला। इत्यत्र दृष्टान्तबुद्धिर्न कार्या। उक्तन्यायेन निद' नाप्राप्तेः। इयं सामान्येनैवासंभवात्प्रतिपादिता उपमेयवृत्तस्यापमाने संभवादपि भवति । 'उभयत्रापि संवन्धविघटनस्य विद्यमानत्वात् । तद्यथा 'वियोगे गौडनारीणां यो गण्डतलपाण्डिमा। अलक्ष्यत स खजूरीमअरीगर्भरेणुषु ।' अत्र गण्डतलं प्रकृतम् । तद्धर्मस्य पाण्डिनः खर्जुरीरेणुषु संभवादापम्यप्रतीतिः । एष च प्रकारः शृङ्खलान्यायेनापि भवति । यथा 'श्रा मुण्डशिरसि बदरफलं बदरोपरि बदरं स्थिरं धारयसि । जुगुप्सस्यात्मानं नागरिक विदग्धाश्छल्यन्ते ॥" क्वचित्पुनर्निषेधसामर्थ्यादाक्षिप्तायाः प्राप्तेः संबन्धानुपपत्त्यापि भवति । यथा"उत्कोपे त्वयि किंचिदेव चलति द्राग्गूर्जरमाभृता मुक्ता भून परं भयान्मरुजुषां यावत्तदेणीद्वशाम् । पद्भयां हंसगतिर्मुखेन शशिनः कान्तिः कुचाभ्यामपि क्षामाभ्यां सहसैव वन्यकरिणां गण्डस्थलीविभ्रमः॥' . अत्र मुक्तति निषेधपदं तदन्यथानुपपत्त्या पादयोहंसगतिप्राप्तिराक्षिप्यते। सा च तयोरनुपपन्ना सादृश्यं गमयतीति असंभवद्वस्तुसंन्धनिबन्धना निदर्शना। 'भेदप्राधान्ये उपमानादुपमेयस्याधिक्ये विपर्यये __वा व्यतिरेकः। (१) उपमेये उपमाने वा। (२) अत्र पादादिषु हंसगत्यादीनामभावे तु निषेधेो नोपपथते, अतः पादादिषु हंसगत्यादीनामाक्षेपः । अपि च पादादिषु हंसगत्या. दीनां साक्षात्सम्बन्धो नास्ति, अत औपम्यं प्रतीयते । (३) भेद प्रधानतायामुपमानादुपमेयस्याधिक्ये न्यूनतायां वा । विवक्षितायां व्यतिरेकालङ्कार इत्यर्थः ।
SR No.023475
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorGaurinath Pathak
PublisherSharda Bhavan
Publication Year1983
Total Pages134
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy