SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ 64 अलंकार मणिहारे परं स्थानं परत्वेन सूत्रोक्तं देशसामान्यरूपस्थानं च प्रकरणादपि प्रस्तावादपि उभयाकाङ्क्षारूपप्रकरणादपि च हीनबलं दुर्बलं हि । पारदौर्बल्यस्य सूत्रितत्वादिति भावः । अत्र उक्तरीत्याप्रकरणस्थानशब्दवाच्यार्थद्वय श्लेषभित्तिकाभेदाध्यवसायद - तहस्तेन प्रकरणेन विवक्षितार्थसमर्थनम् ॥ स्थानं यथा स्थानेन व्यपदिष्टा भाति समाख्याऽपि वेङ्कदेश तव । यत्कथितं जैमिनिना स्थानं बलवत्तरं समाख्यायाः ॥ २१०० ॥ हे वेङ्कटेश ! तव श्रुतिशतप्रथितवैभस्येति भावः । समाख्याऽपि नामापि स्थानेन त्वदावासभूतवेङ्कटाद्रिलक्षणस्थानेन व्यपदिष्टा व्यपदेशं ख्यातिं प्राप्ता वसिष्ठव्यपदेशिनः' इति - वत् वेङ्कटाद्रिरूपस्थानपुरस्कारेणैव हि तव वेङ्कटेश इत्यभिधेति भावः । यत् यस्मात् जैमिनिना समाख्यायाः यौगिकशब्दरूप - समाख्यायाः नाम्नश्च तदपेक्षयेत्यर्थः । स्थानं देश सामान्यरूपं आवासभूतं च स्थानमेव बलवदिति कथितं पारदौर्बल्यसूत्रेण । तस्मात् तव समाख्याऽपि स्थानेन व्यपदिष्टा भातीति योजना । अत्र समाख्यास्थानशब्द प्रतिपाद्यार्थद्वय श्लेषमूलाभेदातिशयैकीकृतेन स्थानेन भगवत्समाख्याया व्यपदेश्यत्वं समर्थितम् ॥ (6 - समाख्या यथा वेधास्त कृत्तिवासास्सान्ता वृद्धश्रवाश्च विश्वा त्मन् । नान्तस्त्वमत्र मानं भवति हि युष्मत्समाख्यैव ॥ २१०१ ॥
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy