SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ 38 अलंकारमणिहारे यथावा- निर्मित्सा चेत्तव जगदासीदेवात्र नेष्यतेऽभ्या सः। अत एवाच्युत पाणिनिरत्राभ्यासस्य लोपमेवाह ॥ २०१३ ॥ __ हे अच्युत! तव जगदेककारणस्यति भावः। निर्मित्सा निर्मातुमिच्छा चेत् जगत् इदं भुवनं आसीदेव निष्पन्नमेव । न तु तनिष्पत्तो मात्रयाऽपि विलम्बः ‘इच्छामात्रं प्रभोस्सृष्टिः' इति श्रुतेरिति भावः । अत्र निर्मित्सायां अभ्यासः पौनःपुन्यं नेष्यते। सदिच्छोन्मेषमात्रादेव संभवन्त्यां जगत्सृष्टौ तत्पौनःपुन्यं नापेक्षितमिति भाषः । अतएव निर्मित्सायामभ्यासानपेक्षणादेव पाणिनिः अत्र निर्मित्सारूपेऽर्थे, पक्षे निर्मित्साशब्दे अभ्यासस्य पौन:पुन्यस्य, अन्यत्र द्विर्वचनस्य लोपमेव अदर्शनमेव आह कथयति । निरित्युपसर्गपूर्वकात् माधातोस्सनि 'सनि मी मा' इत्यारण्य यदुक्तं तत्राभ्यासलोपस्य 'अत्र लोपोऽभ्यासस्य' इति सूत्रेण तेन विहितत्वादिति भावः। अत्र भगवतो जगन्निर्माणविषयकेच्छाभ्याप्तानपेक्षणेऽर्थे पूर्ववदेव श्लेषमूलातिशयोक्तयवलम्बनेन उपदर्शितं पाणिानसूत्र प्रमाणीकृतम् ॥ यथावा सम एव भवति सम्राट् पुरुषत्वं चापि भवति तस्यैव । यन्मो राजि समः को व्रश्चभ्रस्जति सत्रितं मुनिना ॥ २०६४ ॥ मया श्रिया सह वर्तत इति समः । स एव सलक्ष्मीक एव सम्राट् जगदीश्वरो भवति 'एष ब्रह्मलोकस्सम्राट् । राजा
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy