SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ 36 अलंकारमणिहारे यन्मुहूर्त क्षणं वाऽपि वासुदेवो न चिन्त्यते । सा हानिस्तन्महाच्छिद्रं सा भ्रान्तिस्सा च विक्रिया ॥ इति पुराणं, त्वं भवान् क्षणमपि अत्यल्पकालमपि वा न चिन्त्यस इति यत् सा हानिरिति प्राह । परिहारस्तु-पूर्वार्ध हा निस्समजनिं आप इति छेदः । त्वद्धथानेन भृतः जनः भृतः कर्मणि क्तः। निस्समां असदृशी जनि जन्म ‘स हि विद्यातस्तं जनयति तच्छेष्ठं जन्म' इत्युक्तप्रकारं ब्रह्मविद्यावेतृत्वरूपं जन्मेति भावः । यद्वा 'वर्णाश्रमाचारपरः' इत्युपक्रम्य महता तेन पुण्येन वैष्णवत्वं लभेत सः । विष्णुभक्तिपरस्तद्वत्सप्त जन्मानि मानवः ॥ एकान्तभगवद्याजी विप्रो भागवतान्वये । ततस्स लभते जन्म देवैरत्यन्तदुर्लभम् ॥ इति वाराहोक्तं लोकोत्तरं प्रपन्नजन्मेति भावः । आप प्राप्तवान् । निस्संदेहैव तत्प्राप्तिरिति द्योतनाय ‘कृतं कार्यमिति श्रीमान् व्याजहार पितामहः' इत्युक्तरीत्या सिद्धवत्कारेण भूतनिर्देश: । हा इत्याश्चर्ये । अत्र उपपादितश्लषभित्तिकाभेदाध्यवसायनियूंढस्वविवक्षितभगवद्धयातृहान्यसंभावितत्वनिर्धारणाय उपदर्शितपुराणरूपशब्दप्रमाणोदाहरणम् ॥ व्याकरणरूपशब्दप्रमाणं यथा-.. महतः परमस्य सतो अवता पुरुषेण पूज्यमानेन । सामस्त्येऽग्रयत्वं स्याद्देवैतत्प्राह सन्महत्सूत्रम् ॥ २०६१ ॥ हे देव! महतः पूज्यस्य अत एव परमस्य उत्कृष्टस्य सतः ब्रह्मविदः कस्यचित् पूज्येन पुरुषेण भगवता नारायणेन भवता
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy