SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ शब्दप्रमाणसरः (११५) 33 स्मरणं स्मृतिः वतीति क्रियासमभिहारेण वर्तते । अत्र भगवतश्श्रीनिवासस्यातिमृदुलस्वहृदयाश्रयणायातिनिष्ठुरभुजगराडचलपरित्यजनप्रार्थनरूपस्वाभीप्सितार्थे 'न चिरं पर्वते वसत्' इति मानवी स्मृतिः प्रमाणभावमनीयत ॥ यथावा___ नमतां जेतुं वर्ग द्विषतां श्रयसे मृगेन्द्रगिरिदुर्गम्। सर्वेषां दुर्गाणां स्मरन्ति गिरिदुर्गमेव हि ज्यायः ॥ २०५५ ॥ नमतां शरणागतानां सम्बन्धिनं द्विषतां वर्ग कामाद्यारेषड्डुर्ग जेतुं मृगेन्द्रगिरिदुर्ग शेषाद्रिदुर्ग सिंहादिक्रूरसत्वाधिष्ठितं दुर्गमित्यपिगम्यते । अत्र श्रीनिवासस्य भगवतः शरणागतसंबन्धिद्विषद्वर्गविजयफलकत्वेन संभाव्यमानमृगेन्द्रागारेदुगीश्रयणरूपेऽर्थे - सर्वेणापि प्रयत्नेन गिरिदुर्ग समाश्रयेत् । एषां हि बाहुगुण्येन गिरिदुर्ग विशिष्यते ॥ इति मानवी स्मृतिरेव प्रमाणत्वेन प्रदर्शिता ॥ यथावा दुर्गमचाक्षुषममतिः प्रपद्यतां नाच्युतं यदाह मनुः । दुर्गमचक्षुर्विषयं न हि प्रपद्येत काहचिदपीति ॥ १०५६ ॥ दुर्ग दुर्गमं 'क्षुरस्य धारा निशिता दुरत्यया दुर्ग पथस्तकवयो वदन्ति' इति श्रुतेः 'दुर्लभो दुर्गमो. दुर्गः' इति नामसहस्रपाठाच्च । अचाक्षुषं चक्षुरगोचरं 'न चक्षुषा गृह्यते' इति श्रुतेः। ईदृशं अच्युतं यस्मात्प्राप्ता न च्यवन्ते सोऽच्युतः, इति निरुक्तिविषयं श्रीनिवासं परं ब्रह्म अमति: ALANKARA IV.
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy