SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ 26 अलंकारमाणहारे ७ - यथावा लोपमुपयान्ति तापास्तमांसि सकलानि यद्ळन्तितमाम् । तदमीषां लसति सतां हृदयाकाशे विधुस्सदा विमले ॥२०३८॥ ... अत्र साध्ये विधुविलसनेनानुमितेराक्षेपात्प्रतीयमानत्वम् । सन्तो हृदयाकाशविलसद्विधुत्ववन्तः लुप्ततापत्वात् गळिततमस्कत्वाचेति प्रयोगः । श्लेषरूपकसंकीर्णमिदम् । यत्र साध्यस्याप्यनुपात्तत्वे लिङ्गमात्रस्योपात्तत्वेनागूर्यमाणं साध्यं तत्र ध्वम्यनुमानम् ॥ • यथावा बंहन्ति दन्तिनिवहा हेषन्ते हन्त सन्ततं वाहाः । गृहचत्वरेषु महतां बहुसत्वरगा रथाश्च विहरन्ते ॥ २०३९ ॥ अत्र महतां लक्ष्मीकटाक्षपात्रत्वरूपसाध्यस्यानुमानं ध्वन्यते॥ इत्यलंकारमणिहारे अनुमानसरस्त्रयोदशोत्तरशततमः. अथोपमानसरः, (११४) संज्ञायास्संज्ञिनश्चापि संबन्धप्रत्ययो हि यः । सादृश्यज्ञानकरण उपमानं तदुच्यते ॥ सादृश्यज्ञानकरणकस्संशासंशिसंबन्धप्रत्यय उपमानम् । तदे. व चमत्कारि उपमानालंकारः॥
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy