SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ लक्षणश्लोकाः 315 भवेयुश्चेत्तदाऽपि स्युरेवमेव भिदा दश ॥ एवं द्विधा विभागे तु भेदानां विंशतिभवेत् । त्रिधा पादविभागे तु त्रिंशदित्यूह्यतां क्रमात् ॥ एवमन्त्यादिकाद्यान्तमध्यादीन्यादिमध्यगम् । अन्त्यमध्यं च मध्यान्त्यमेतेषां च समुच्चयाः ॥ एकैकपादे नियता नियतकमशालिनः । यम्यन्ते चेदादिमध्यान्तभागास्तद्भिदाश्शतम् ॥ पुनरुक्तवदाभासः पुनरुक्तवदाभाति यत्रार्थो न तु वस्तुतः । पुनरुक्तवदाभासस्स नामाख्यातगोचरः ।। शब्दैकनिष्ठश्शब्दार्थद्वयस्थश्चेत्यसौ द्विधा । सभङ्गाभङ्गभेदेन द्विधा शब्दैकसंश्रयः ।। अपशब्द वदाभासः निवर्तते साधुभावज्ञानाद्यत्रापशब्दधीः । अपशब्दवदाभासस्सोलंकारो निगद्यते ॥ अव्ययाभासः पदानां सुप्तिङन्तानामन्यार्थानां निगुम्भने । यथाऽव्ययवदामासश्चित्रं तमाम तद्विदुः ।। तिङन्तवदाभासः यत्राभासस्तिङन्तानां स्यादर्थान्तरगैः पदैः । ततिङन्तवदाभासचित्रं चित्रज्ञसंमतम् ॥ सा बाते॥
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy