SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ 298 अलङ्कारमणिहारे (२१) निदर्शना उपात्तयोरर्थयोश्चेदार्थाभेदः प्रकीर्यते । औपम्यपर्यवसितो भवेत्सेयं निदर्शना ॥ पदार्थ पूर्वा सान्या स्यादुपमानोपमेययोः । यत्रान्यतरधर्मस्यान्यत्रारोपणमुच्यते ॥ सदसद्बोधनं स्याच्चेत्क्रिययाऽन्या निदर्शना ॥ (२२) व्यतिरेकः उक्तः कश्चिद्विशेषश्चेदुपमानोपमेययोः । तमाहुर्व्यतिरेकाख्यमलंकारं चिचक्षणाः ॥ उपमेयस्योपमानाथदा गुणविशेषतः । उत्कर्षो वर्ण्यते प्राहुर्व्यतिरेकं तदा बुधाः || (२३) सहोक्तिः गुणप्रधानताभाजोरर्थयोरुभयोर्यदा । वर्ण्यस्सहार्थ संबन्धस्स होतं तां तदा विदुः ॥ (२४) विनोक्तिः किंचिद्दिना प्रस्तुतस्य रम्यताऽरम्यताऽपि वा । निबध्यते यदि तदा सा विनोक्तिरलंकृतिः ॥ (२५) समासोक्तिः साम्याद्भेदकमात्रस्य गम्यमप्रस्तुतं यदि । समासोक्तिमिमां प्राहुः प्राञ्चोऽलंकारवेदिनः || (२६) परिकरः साभिप्राये परिकरोऽलंकारस्याद्विशेषणे ।
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy