SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ अलङ्कार मणिहारे क्षेमंकरस्थानभूतमित्यर्थः । अत्र श्यामं काममित्यादौ सर्वत्रानुस्वारस्य ' वा पदान्तस्य' इति परसवर्णो बोध्यः । अन्यथा विवक्षितचित्रभ्रंशापत्तिः । यद्यपि 'सबिन्दुकाबिन्दुकयोस्सविसर्गविसर्गयोः' इति चित्रादावभेदकल्पनाऽभ्युपगता कविभिः । तथाऽपि यावद्बुद्धिबलोदयं तादृशक्लेशानाश्रयणमेव ज्याय इति ध्येयम्। अस्मिन्पद्यद्वयेऽपि तारागौरेति प्रागुदाहृतपद्यवदेव पद्मादिबन्धा द्रष्टव्याः ॥ 272 अथ गोमूत्रिका एकान्तरं तु वर्णानामेकरूपत्वमर्धयोः । गोमूत्रिकाख्यं चित्रं तदाहुश्चित्रविदो बुधाः ॥ अर्धयोः श्लोकस्य यथाक्रमं पूर्वोत्तरार्धयोः एकान्तर एकाक्षरव्यवहितं यदेकरूपत्वं अभिन्नाकारत्वं तत् गच्छतो गोर्मूत्राकारकतया घटितत्वे गोमूत्रिकाख्यं चित्रमिति चित्रकाव्यविद आहुः । गोमूत्रमिव गोमूत्रिका | 'इवे प्रतिकृती' इति कनि टापि ' प्रत्ययस्थात्' इति इत्वम् ॥ यथा भोगीश्वरशैलक्षितिविलासलोलो ददातु नः कुशलम् । योगीश्वरजालस्तुति कुलामलोऽसौ दधातु नो कुफलम् ।। २३७१ ॥ भोगीश्वरशैलक्षितौ विलासे लोलः श्रीनिवास इत्यर्थः । नः कुशलं ददातु योगीश्वरजालस्य स्तुतिकुलैः स्तोत्रनिवहैः अमल: प्रसन्न इत्यर्थः । असौ श्रीनिवासः कुफलं कुत्सितफलं नो दधातु
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy