________________
शब्दालङ्कारसरः (१२२)
263
इत्यर्थः । ‘अल भूषणपतिवारणेषु' इति धातोः पचाद्यच् । महोदधिनिमग्नाया भुवो वेदवाचो वा समुद्धर्तेत्यर्थः । ललाल विललास। ‘लल विलासे' इत्यस्माल्लिट् । लोलाल: लोला लक्ष्मीः 'लोलस्स्याद्वाच्यलिङ्गकः । सतृष्णे चपले लोला जिह्वाकमलयोः स्त्रियाम्' इति मेदिनी 'लोला तु रसनाश्रियोः' इति हेमश्च । तां अलति भूषयतीत्यलः उक्तधातोरेव पचाद्यच् । लोलायाः अलः लोलाल: । यद्वा लोला ललतीति लोलाल: कर्मण्यण् । लोलायां लिनातीति वा लोलाल: ‘ली श्लेषणे' अस्मात् कय्यादिकात् 'अन्यभ्योपि दृश्यते' इति डः । अथवा लिनातीति ला लोला ला यस्मिन् सः लोलाल: सर्वथाऽपि श्रीवल्लभ इत्येवार्थः। ललालेत्यन्वयः । अत्र लकारेणैकेनैव पद्यबन्ध इत्यपञ्चवर्गीयवर्णमेकाक्षरचित्रमिदम् ॥
सप्तस्वरनियमचित्रं यथा
मामानिनीसमागमनिस्समगरिमाऽरिदारिसारिगदम् । निगमापसारिदमदं पापानि ममाऽऽसदासधनि धाम ॥ २३६१ ॥
मा लक्ष्मीरति मानिनी वधूः तस्यास्समागमेन निस्समः असदृशः गरिमा गौरवं यस्य तत्तथोक्तं श्रीवल्लभत्वादेवास्ये. दृशं महत्त्वमिति भावः । अरीन् दारयतीत्यरिदारिणी अरिणा चक्रेण सह वर्तत इति सारिः सा चासौ गदा कौमोदकी यस्य तत्तथोक्तम् । निगमस्य वेदस्य अपसारिणः अपहर्तार मधुकैटभादयः तेषां दमं दण्डं ददातीति निगमापसारिदमदम् । धनमस्यास्तीति धनि दासैर्धनि दासधनि दासाभिन्नधनवादत्यर्थः । धनवदस्य दासास्संरक्षणीया इति भावः । धाम तेजः