SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ 254 अलङ्कारमणिहारे अथ वर्णनियमः. तत्रापञ्चवर्गीणचित्रं यथा, ममैव प्रपन्नानन्दस्तुतौ सरसिरहालयवासा या सा शिशिरांशुहारिलवहासा । वरसारसशालिशया सरसा सा श्रीविशिश्रिये शिरसा ॥ २३४७ ॥ लवहासो मितहसनम् । सा श्रीः शिरसा विशिश्रिये आश्रिता। अत्र कचटतपवर्गीयवर्णवैधुर्येण यकारादिवर्णा एव न्यबध्यन्त। इदमेवास्पर्शवर्णचित्रम् ॥ यथावा वासवसवहर सवहरवरवश्यासुरवरासशौर्य हरे । वल्लववलयसहाय स्वयं श्रिया सह विहारशीलाव्याः ॥ २३४८॥ वासवसवस्य इन्द्रयागस्य हर । सवहरवरस्य शम्भुदत्तवरस्य वश्य: यः असुरवरः बाणासुरः तं अस्यति निरस्यतीति तथोक्तं शौर्य यस्य तस्य संबुद्धिः। वल्लववलयस्य गोपोलजालस्य सहाय श्रिया सह विहारशील हरे! स्वयं मत्कृतकिंचित्कारमनपेक्ष्य अव्याः रक्ष । इदमपि पूर्ववदपञ्चवर्गीयचित्रम् ॥ अनन्तस्थोष्मवर्णचित्रं यथा कनककनदनयधामा घनभूमा काऽपि जगदधिपभामा । दलां मम मतिमत्तामतिमत्तानां पदा. न्तिकं मा गाम् ॥ २३४९ ॥
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy