SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ यथावा शब्दालङ्कारसर: (१२२) 245 सौभाग्यकैरवग्लौः पद्मास्थैर्यप्रभावताराद्यौः । अनपायभवार्णवनौरनघा भद्राय वनौ ॥२३२९॥ ग्लौः चन्द्रमाः । स्थैर्य च प्रभावाश्च त एव ताराः तारकाः तासां द्यौः । पद्मा लक्ष्मी: । अत्र अकार आकार ऐकार औकारश्चेत्येते चत्वार एव स्वरा निबद्धाः ॥ त्रिस्वरनियमो यथा भासताम या नागाद्रयावासा सा पायान्मां सदा भवापायात् । श्रीः ह्रीधी श्रीकीर्तीः प्रीतीर्दधती हरन्तीतीः ॥ २३३०॥ नागाद्रयावासा शेषाद्रिनिवासा । हीः अकार्ये लज्जा । धीः प्रज्ञा श्रीः प्रभा । कीर्तिः यशः । प्रीतः आश्रितेषु प्रेमा । तस्याः विषयभेदाद्बहुत्वम् । दधती पुष्णती । ईतीः उपप्लवान् । 'ईतिडिम्बप्रवासयो:' इत्यमरः । हरन्ती श्रीः लक्ष्मीः भवापायात् संसाररूपादपायात् पायात् इति योजना । अत्र अकार आकार ईकार इत्येते त्रय एव स्वराः ॥ . यथावा विनुतस्ततं मुनिभिर्मुमुक्षुभिर्ननु बुभुक्षुभिरपित्वम् । तत्तदभिलषितमखिलं वितरसि मुचु कुन्दवरद मुरमथन ॥ २३३१॥
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy