________________
शब्दालङ्कारसरः (१२२)
239
शेषणभावापन्नसप्तम्यन्तपदद्वयभ्रमजननात् विभो इति संबुद्धिर्वञ्चिता । एवं विधातरीशे इत्यानुपूया समभिव्याहृतत्वयीति सप्तम्यन्तविशेषणताभ्रमोत्पादनेन विधातरिति संबुद्धेश्च वञ्चनमित्यामन्त्रणवञ्चनं नाम चित्रम् । एवमेव ईशे इति पदस्याप्युक्तविधभ्रान्तिसंपादकतया क्रियावञ्चनं चाभ्युचीयते ॥
अथ सप्तविभक्तिवश्चनचित्रम् यत्रैकस्यैव शब्दस्य गुप्तास्सप्त विभक्तयः। तत्र सप्तविभक्तीनां वञ्चनं चित्रमुच्यते ॥ यथावा
भातीदृशी मयेयं जगतीष्टे या समर्पितस्वायै। जनताया आधत्ते श्रियस्स्तुता या मनोऽनुभवति च याम् ॥२३२५॥
भाति ईदृशो मया इयं जगती ईष्टे या सर्पितस्वायै जनतायै आधत्ते श्रियः स्तुताः याः मनः अनुभवति च याम् इति छेदः । जनताया आधत्ते इत्यत्र ऐकारस्य आकारे परे ‘एचोयवायावः' इत्यायादेशे 'लोप: शाकल्यस्य , इति यलोपः तस्यासिद्धत्वान्न स्वरसन्धिः। इयं जगती लोकः ‘अथो जगती लोकः' इत्यमरः। मया लक्ष्म्या हेतौ तृतीया । ईदृशी परिहश्यमानैवविधविविधविचित्रभोक्तभोग्यभोगीपकरणभोगस्थानादिसमृद्धिशालिनी भाति प्रकाशते । एवंविधो जगत्सन्निवेशस्सोऽपि लक्ष्मीसंकल्पायत्त